पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
वैराग्यशतके

विसृष्टाश्चेत्तर्हि । एते विषया। अनन्तमपरिच्छिन्नं। शमसुखं परमा- नन्दमिति यावत्। विदधति कुर्वन्ति हि - हिरवधारणे - तदुक्तं-

"यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्-
तृष्णाशमसुखस्यैते नार्हतष्षोडशी कळाम् ॥” इति।।

 अतोऽनर्थापादक विषयकर्तृकत्यागात्पूर्वमेव स्वयं तत्त्यागतत्परेण भवितव्यं श्रेयस्कामेनेति भावः॥  वृत्तं पूर्ववत् ।।

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं
यन्मुंचन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो नि:स्पृहाः ।
सम्प्राप्तान्न पुरा न सप्रैति न च प्राप्तो दृढप्रत्ययो
वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ १३

 व्या..-ननु कीदृग्विधाः पुरुषा विषयत्यागसमर्था इत्याका-' ङ्क्षायां ज्ञानिन एव समर्था न तु मादृशा इत्याह - ब्रह्मेति..---ब्रह्म- ज्ञानेन यो - विवेकस्तत्त्वविचारस्तेन - निर्मला निष्कलङ्का - असंभावनादिरहितेति यावत् - साधीर्येषां ते ज्ञानवन्त इत्यर्थः । दुष्करं कर्तुमशक्यं। कुर्वन्ति । अहो इत्याश्चर्ये । किं तद्दुष्करमि - त्याह - यद्यस्मादुपभोगं भजन्तीत्युपभोगभाञ्जि स्रक्चन्दनादि - भोगसाधनत्वेनानुभूयमानान्यपीत्यर्थः- धनानि वित्तानि । निःस्पृहाः निरीहास्सन्तः । एकान्ततः नितान्तं निरवशेषमिति यावत् । मुञ्चन्ति विसृजन्ति इदमेवातिदुष्करमत्यन्ताश्चर्यं चेत्यर्थः । वयमस्मद्विधा अज्ञानिनस्तु। पुरा पुरातनकाले न संप्राप्ताम्नाधिगतान् । तत स्संप्रती- दानीं वर्तमानकालेऽपि । प्राप्तौ वा भविष्यकाललाभेऽपि वा न दृढप्रत्ययान्न दृढविश्वासान् - अविश्वसनीयानिति यावत् - कालत्रयेs