पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
विषयपरित्यागविडंबनम्

वूजन्तस्वातन्त्र्यादतुलपरितापाय मनस
स्वयं त्यक्ता ह्येते शमसुख मनन्तं विदधति ।। १२

 व्या.---अथ सर्वथा विषयाः परित्याज्या इति वक्तुं तेषां व्यवस्थिति माह - अवश्यामिति ----विषया भोगाश्चिरतरं बहुकालम् । उषित्वा स्थित्वाऽपि * 'वसति क्षुधोरि' तोडागमः * ‘वचि स्वपी' त्यादिना संप्रसारणम्। अवश्यं नियतं सिद्धमिति यावत्। यातारो गन्तारः - आगमापायित्वेनास्थिरत्वात्परिचयानादरेण पुरुषं त्यक्त्वा यातार एव - न तु परिचयवशाद्यावज्जीवं स्थातार इत्यर्थः - तदुक्तं भगवता-

“मात्रास्पर्शाश्व कौन्तेय शीतोष्णसुखदुःखदा:-
आगमापायिनोऽनित्यास्तां स्तितिक्षस्व भारत ॥” इति--

 *यात्तेलुट्। अतः वियोगे विषयविरहे। को भेदः कोवा विशेषः न कोऽपीत्यर्थः - स्वकर्तृकत्यागे वा पुरुषकर्तुकत्यागे वा तस्य जाय- मानत्वादिति भावः। तथाहि । यद्यस्मात्कारणात् । जनो विषयासक्तः पुमान् । अमूम् विषयान् स्वयं न त्यजति गुणान् गृहीत्वा न विसृ- जति - स्वय मेव त्यजति चेत्तर्हि तेन कृतार्थो भवेदिति भावः - एतेन विषयकर्तृकत्यागे तु न कृतार्थत्वमिति सूच्यते। ननु कुत एतद्वैषम्यमित्याशङ्कय तत्र व्यवस्थामाह - स्वातन्त्र्यात् कर्तृत्वात् - खाच्छन्द्यादिति यावत् * स्वतन्त्रः कर्ते'त्यनुशासनात् । त्यजन्तः पुरुषं विसृजन्तस्सन्तः - विषयां इति शेषः। मनसः अतुलपरिता- पाय दुरन्तसंतापाय भवन्तीति शेषः - अत्यन्त दुःखकारिणो भव. न्तीत्यर्थः। स्वयं स्नवे को पुरुषेण। त्यक्ताः तुच्छत्वभावनया 15.