पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
वैराग्यशतके

करं। नानुपश्यामि नानुसंदधामीत्यर्थः। कुत एतद्वैपरीत्य मित्या- शङ्कथ तत्रोपपत्तिमाह - विपाक इति - पुण्यानां पुराकृतसुकृतानां । विपाकस्संपद्परूपरिपाकः। विमृशतः तत्फलं परामृशतः । मे मम। भयं । जनयत्युत्पादयति - तत्पर्यालोचने संपदा पुण्यव्ययलभ्यत्वेन विपद्परूत्वाद्भयजनकत्व मित्यर्थः - अत एवोक्तं कविकुलसार्वभौमैन श्रीहर्षेण - 'पूर्वपुण्यविभवव्ययलब्धा स्संपदो विपद एवं विमृष्टा' इति - अथ वा - पुण्यानां ज्योतिष्ट्रोमादिसत्कर्मणां। विपाकः सर्गा- दिरूपफलपरिणामः । विमृशतः पूर्वोत्तरं पर्यालोचयतो। मे भयं जनयति क्षीणे पुण्ये मर्त्यलोकं विशन्तीति' भगवद्वचनात् - याव- न्नियतकालं स्वर्गसुखमनुभूय पुण्यक्षये सति पुनमर्त्यलोकप्रवेशे महा विषादगर्भ निरयवासजन्मपरम्परादुःखप्रभवत्वाद्भयङ्करत्वमित्यर्थः । अतः शकुलं न पश्यामीति संबन्धः ।। एवं तत्फलभूतानां भोगाना. मध्यनर्थहेतुत्वमेवेत्याह - महद्भिः भूयिष्टैः पुण्योधैः पुण्यसंचयैः - हेतुभिश्चिरपरिगृहीताश्चिरकालमारभ्य संगृहीता। विषयाश्च भोगा अपि। विषयिणां विषयासक्तानां। व्यसनं विपत्ति दुःखमिति यावत्। दातु मिव दातुमेव - इव शब्दोऽत्रावधारणार्थकः - न तूत्प्रेक्षाभिव्यञ्जकः • अन्यथाऽर्थान्तरन्यासदिति वेदितव्यं । महान्तः प्रवृद्धा! जायन्ते भवन्ति - व्यसन प्रदानप्रवणैव एतद्धिः नान्यदा- नप्रवणेत्यर्थः । एव मैहिकामुष्मिक भोगानामनिष्टानुबन्धित्वात्त. त्त्याग एव श्रेयानिति भावः ॥ शिखरिणीवृत्तम् ।।

अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया
वियोगे कोभेदस्त्यजति न जनो यत्स्वय ममून् ।