पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
तृष्णादूषणम्

तृष्णा - नि. - दशाऽवस्थानैकविधाऽत्याशा तृष्णाऽपि चायते' त्यमरः । नामेति प्रसिद्धौ - आशेति प्रसिद्धेत्यर्थः । या नदी वर्तत । इति शेषः - यत्तदोर्नित्यसंबन्धात्। तस्या आशानद्याः। पारं गताः ज्ञानप्नवेनेति भावः। अत एव विशुद्धमनसोनिर्मलान्त:करणाः । योगीश्वरा महायोगिनः । नन्दन्ति ब्रह्मानन्दमनुभवन्तीत्यर्थः । अतस्सर्वदा तृष्णातरणोपायोऽन्वेषणीयः श्रेयस्कामेनेति भावः ।।

इति शृङ्गारशतके दुर्विरक्तपद्धति सम्पूर्णा ।।

॥ विषयपरित्याग विडंबनम् ।।

न संसारोत्पन्नं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया
महान्तो जायते व्यसनामिव दातुं विषयिणाम् ॥ ११

 व्या.----यदुक्तं योगिन स्तृष्णानदीं तीर्त्वा नन्दन्तीति - तत्र विषयपरित्यागमन्तरा तदसंभवादथविषयपरित्यागविडम्बनो - च्यते - अथेति.—अथ तृष्णादूषणानन्तरं। विषयाणां रूपादीनां - नि.-रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी'त्यमरः . यद्वा . स्रक्चन्दनवनितादिभोग्यवस्तूनां - परित्याग स्सन्यासस्तस्य विडम्ब- लाऽनुकरणमभिनय इति यावत् - उच्यत इति शेषः - तत्प्रकारमे- वाह दशभिः - न संसारोत्पन्नमिति.-संसारे अनादिभवपरम्प-- रायामुत्पन्नमुदितं - फलोद्देशेनानुष्ठितामति यावत्। चरितं पुण्या- चरणम् * आदिकर्मणि कर्तरि चेति कर्तरि क्तः। कुशलं क्षेम-