पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
वैराग्यशतके

कृतो विचस्तम्भप्रतिहतधिया मञ्जलिरपि
त्वमाशे ! मोघाशे ! किमपरमतो नर्तयसि माम् ॥ ४

 व्या.-----खलालापा इति.-~-खलानां दुर्जनानामालापाः दुर्भाषितानि। तदाराधनपरैस्तत्सेवातत्परैरस्माभिरिति शेषः। कथ मप्यतिकृच्छ्रेग । सोढाः क्षान्ताः - - अन्यथाभावे कार्यभङ्गो भवे - दिति भयादिति भावः । तथा। अन्तरभ्यन्तर एव - बाष्पं तदा लापश्रवणजनिताशु । निगृय नियम्य । शून्येन निरुत्सुकेन। मनसा उपलक्षितॅर्निर्भिन्नान्त:करणॅरित्यर्थः। हसितं हासोऽपि कृत इति शेषः कर्तरि क्तः - दुरालापैराक्षिणा अपि ते संतोषवन्त एव न तु निर्विण्णा अतो विश्वसनीया इति यत्पादनार्थ निर्विपयमिथ्याहा- सोऽपि विरचित इत्यर्थः । तथा। वित्तेन धनेन - यः स्तम्भो जडी- भाव-स्तेन प्रतिहता मूढा विवेकशून्येति यावत् - धीर्येपान्तेषां धनदु र्मदान्धानामित्यर्थः - नि. 'स्तम्भौ स्थूणाजडीभावा वि' त्यमरः। अञ्जलिरपि कृतः प्रह्विभावोऽपि विहितः-तथाऽपि न किंचिल्लब्धमिति भावः । अत: मोघाशे व्यर्थमनोरथे। आशे तृष्णे - नि. - आशातृ- ष्णादिशोः प्रोक्ते' इति विश्वः। त्वं मामतोऽस्मात्खलालापादिसहनादि- कृत्यात्। अपरामितरत। किं कार्य नर्तयसि नाटयसि मया किं कार्य कारयसीति यावत् - न किमपीत्यर्थः - नाटयितव्यार्थस्य वैयर्ध्यादिति भावः ननु पूर्वश्लोके मयेत्येकवचनं प्रयुक्तं - अत्र' तु तदाराधनपरैरिति बहुत्वं - कथमेतत्समञ्जसमिति चेत्सत्यं - तृष्णोपहतानां बहुत्त्वात्तत्प्रयुक्ततत्तत्कर्मकर्तृभेदेन कधिदेकवचनं क- चिद्वहुवचनं च विवक्षितमित्यवधेयम् । एवमुत्तरत्रापि योज्यम् ।।