पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०३
ऋतुवर्णनपद्धतिः


'शीकरोऽम्बुकणः स्मृतः' इत्यमरः। रत्यन्ते सुरतावसाने - यः खेदः अमस्तं छिन्दन्तीति तथोक्ताः सुरतसंरम्भजनितनमापहारिण इत्यर्थः- 'श्रमः । खेदाऽथ रत्यादे र्जातः खेदातिभूमिकृत्' इति लक्षणात्। मरुतश्च । जाताः प्रसृताः । अतः; धन्यानां पुण्यशालिनां। प्रिया- सङ्गमे प्रियासंभोगे सति। दुर्दिनं दुष्टदिनमपि मेघच्छन्नदिनं च - नि.- मेघच्छन्नेऽह्नि दुर्दिनम्' इत्यमरः। सुदिनतां सुदिवसत्वं याति अन्येषां तु तदेव भवतीत्यर्थः। बतेति विस्मये - नि.-' बत खेदानुकम्पामन्त्रण संतोषविस्मये' इत्यभिधानात् ।।  अत्र दुर्दिन मपि सुदिनतां यातीति स्फुरतो विरोधस्योक्त- समाधाना द्विरोधाभासोऽलङ्कारः - 'आभासत्वे विरोधस्य विरोधा- भास इप्यते' इति लक्षणात् ।। शार्दूलविक्रीडितम् ।।.

अर्धं सुप्त्वा निशायाः सरभससुरतायासखि श्लथाङ्गः
प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते।
सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दपुण्यः ।।

 व्या.--अथैकेन शरदं वर्णयति - अर्धमिति.निशायाः रात्रः अर्धम् - यामद्वयमित्यर्थः . नि. ' पुंस्यर्धोर्धं, समेंऽशक' इत्यमरः अत्यन्तसंयोगे द्वितीया । सुप्त्वा शयित्वा निद्रया याम- द्वयं गमयित्वेत्यर्थः । ततः मध्ये इति शेषः । सरभसं सोद्वेगं - यत्सु - रतमाभ्यन्तरसंभोगः - तेन - य - आयासः । श्रम - स्तेन - सन्नानि परिखिन्नानि अतएव - श्लथानि शिथिलानि - अङ्गान्यवयवा यस्य तथोक्तः -