पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
ऋतुवर्णनपद्धतिः


मेघगर्जितस्य - स्फूर्जितं आरवं च । भवतीति शेषः । इतश्च केकिनां शिखावलानां - क्रीडासु केलिषु - यः कलकलरवः कोलाहलध्वनिः - नि. 'शिखावलः शिखी केकी 'कोलाहलः कलकल:' । इति चामरः। यद्वा कलकलरवः अत्यन्ताव्यक्तमधुरप्रकारस्वनश्च । समुज्जृम्भत इति शेषः। पक्ष्मान्यासां सन्तति पक्ष्मला: । सिध्मादित्वा ल्लच्प्रत्ययः - तथाभूता दृशो यासां तासां पारिप्लवलोचनानाम् । एते प्रसिद्धाः । संभृतरसाः संपूर्णशृङ्गाराः , उद्दीपका इत्यर्थः । विरहदिवसा वियु - तवासराः । कथं - यास्यन्ति - अतिक्रमिष्यन्ति न कथंचिदपीत्यर्थः दुरन्तत्वाद्दिनमेकं युगं भविष्यतीति भावः । शिखरिणी वृत्तम् ।।

असूचीसंचारे तमसि नभसि प्रौढजलद-
ध्वनिप्राशभन्ये पतति पृषतानां च निचये।
इदं सौदामन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथिस्वैरसुदृशाम् ॥ ९४

 व्या.--असूचीति.-तमसि अन्धकारे। न विद्यते सूचीसं चारो यस्मि स्तस्मिन्सूच्यग्रमात्रस्याप्यनवकाशप्रदे - गाढतमे सतीति यावत् । तथा । नभसि अन्तरिक्षे च प्रौढः प्रगल्भः - गम्भीर इति यावत् - यो जलदध्वनिर्मेघगर्जितं - तेन - प्राज्ञं वाचाल मात्मानं मन्यत इति प्राज्ञंमन्ये - बहुलतर मेघ निर्ह्रादवति सतीत्यर्थः आत्ममाने खश्च' इति खशि भुमागमः । तथा पृषतानां बिन्दूना च - निचये सन्दोहे पतति सति - नि, पृषन्ति बिन्दुपृषतौ'। इत्यमरः । कनककमनीयं कनकनिकषणरेखासुन्दरमिदं प्रवर्तमानं सौदामन्याविद्युतः - नि. 'तडित्सौदामनी विद्यत्' इत्मरः । विल