व्या.----उपरीति.--उपरि उपरिष्टाद्धनं सान्द्रं घनपटलं मेघ
वृन्दम् । वर्तत इति शेषः - नि. 'घनाः कठिनसङ्घातमेधकाठिन्य -
मुद्गराः' इति वैजयन्ती । तिर्यग् दिक्षु इत्यर्थः । मह्यामतिशयेन
रमन्त इति मयूराः * पृषोदरादित्वात्साधुः । नर्तिता नृत्यन्तः
स्वार्थ णिचि के गत्यर्थाकर्मक-' इत्यादिना वर्तमाने कर्तरिक्तः *
‘मतिबुद्धी - इति वर्तमानता - यद्वा नर्तिता मेघवृन्देन नाटिताः -
मेघोदये तेषां उल्लासवेशेन नाट्यसंभवात् - तथा भूता मयूरा येषु
ते तथोक्ता गिरयोऽपि । वर्तन्त इति शेषः । क्षितिरपि भूमिरपि ।
कन्दलैर्नानाविधाङ्कुरैर्धवला स्वच्छा। अतः पन्थानं गच्छत्तीति
पथिकः पान्थः * 'पथष्कन्' इति ष्कन्प्रत्यः । दृष्टिं । क्व कुत्र।
पातयति - प्रसारयति न कुत्रापीत्यर्थः - सर्वत्राप्युद्दीपनसंभवा-
दिति भावः । महत्कष्टमत्र विरहिणामिति परमार्थः ।।
आर्याभेदः ॥
इतो विद्युद्वल्ली विलसितामतः केतकितरोः
स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ।
इतः केकीक्रीडाकलकलरवैः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः॥ ९३
व्या.---इत इति.----इतोऽस्मिन्प्रदेशे । विद्युद्वल्लीनां तडि - ल्लतानां - विलसितं - स्फुरणम् । भवतीति शेषः । इतः प्रदेशे केत कितरोः केतक्याख्यवृक्षस्य - तत्कुसुमस्येत्यर्थः * ' यापोः संज्ञा - च्छन्दसो र्बहुलम्' इति ह्रस्वः - कालिदास इतिवत् । स्फुरन्व्याप्नु वानो। गन्धश्च वर्तत इति शेषः । इतः प्रोद्यत्प्रवृद्धं ! जलदनिनदस्य