पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
शृङ्गारशतके


लभन्ते प्राप्नुवन्ति । कथमसुकृतिनामीदृग्भोगसाधनलाभ इति भावः. शिखरिणी ॥

सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्वातिसुरभि ।
स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने
करोत्यन्तः क्षोभं न तु विषयसंसर्ग विमुखे ॥ ८९

  व्या.--सुधेति.---सुधया लेपनद्रव्येण शुभ्रम् । यद्वा सुधा अमृतं तद्वच्छुभ्रम् - 'सुधा - स्याल्लेपनद्रव्येऽमृते च' इति विश्वः । अतिसुरभि अत्यन्तसुगन्धि । रागिणि विषयासक्ते । विषयसंसर्गवि - मुखे विरक्ते - विरक्तस्य तेषामकिञ्चित्करत्वादिति भावः । निगदित- व्याख्यानमन्यत् ॥ वृत्तं पूर्ववत् ।।

तरुणी वेषो दीपितकामा विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा प्रावृट् तनुते कस्य न हर्षम् ॥ ९०

 व्या.-~-अथ वर्षासमयवर्णनमारभते - तरुणीति.-उद्दीपित उत्पादितः - कामो मन्मथः सुरताऽभिलाषो वा - यया सा तथोक्ता। विकसन्ति विकस्वराणि-यानि जातिपुष्पानि तैश्शोभनो गन्धो यस्या स्सातथोक्ता-एकत्र जाती कुसुमविकाससंभवात् - अन्यत्र तत्कुसुमा- लंकृतत्वाच्चेति भावः * 'गन्धस्ये दुत्यूति सुसुरभिभ्यः' । इति गन्ध शब्दस्य इकारान्तादेशः । यद्यपि 'गन्धशब्दस्यत्वेतदेकान्तग्रह - णम्' इत्युक्तम् - तथाऽपि कवीनां निरङ्कुशत्वात्पर्यनुयोगः। उन्नत उत्तुङ्गः - पीन: पीवरश्च - पयोधरभारोऽभोधर बृन्दं च अन्यत्र -