पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
ऋतुपर्णनपद्धतिः


सान्द्रचन्दनपङ्कचर्चिताङ्गा इत्यर्थः । मृगाक्ष्यः तरुण्यश्च । धारागृ - हाणि जलयन्त्रवेश्मानि । कुसुमानि -मल्लिकादीनि । कौमुदी चन्द्रिका च । सुमनसो जात्यास्संबन्धी ग्रीष्मकालेऽतिविकास सम्भवात् । तत्कुसुमपरिशीलनजनितामोदभरित इत्यर्थः - नि. 'सुमनामालती - जातिः' इत्यमरः । मन्दो मरुत् मन्थरगन्धवाहश्च । शुचिशुभ्रं - सुधालेपेनेति भावः। हर्म्यपृष्ठं सौधोपरिप्रदेशश्चेति ग्रीष्म ऋतौ मदं हर्षव्यतिकरं । मदनं च । विवर्धयन्ति उद्दीपयन्ति ।। अत्रापि द्वितीयस्समुच्चयालङ्कार उन्नेयः । वसन्ततिलका वृत्तम्।।

स्रजो हृयामोदा व्यजनपवन श्चन्द्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम् ।
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो
निदाघातावेतत्सुखमुपलमन्ते सुकृतिनः ॥ ८८

 व्या.-स्रज इति.---ह्रद्यामोदा मनोहरगन्धाः । स्रजः पुष्पमालिकाश्च । व्यजनपवनस्ताळवृन्तसमीरणश्व - नि. 'व्यजनं ताळकृन्तकमि' त्यमरः । चन्द्रकिरणाश्च । परागस्सुमनोरजश्च । का- सारः क्रीडासरश्च । परागस्सुमनोरजश्च । कासारः क्रीडासरश्च । मल यजरजश्चन्दनक्षोदश्च ; विशदं निर्मलं शेरते अनेनेति शीधु मद्यं च* शीडोधुक् । इत्यौणादिको धुक्प्रत्ययः । शुचिःशुभ्रः - विहा- रयोग्य इत्यर्थः । सौधोत्सङ्गः -- प्रासादोपरिप्रदेशश्च । प्रतनु पवनं सूक्ष्माम्बरं पङ्कजदृशः पद्मपलाशलोचना श्वेत्येतत्सर्वं भोगसाधनम्

  • ' नपुंसकम् - ' इत्यादिना नपुंसकैकशेषः । निदाघतौं ग्रीष्मतौं *
  • आद्गुणः' विलसति विजृम्भमाणे सति सुकृतिनः पुण्यशालिनः ।