पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
शृङ्गारशतके


न्तोपिकत्वान्मानिन्योऽतिदृढमपि निजमानं विहाय प्रियतमपरतन्त्राः स्वयमेव भवन्तीत्यर्थः ॥ आर्याभेदः ।।

सहकारकुसुमकेसरनिकरभरामोदमूर्छितदिर्गते ।
मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा॥ ८६

  व्या.--सहकारेति.---सहकारकुसुमानां रसालविशेषप्रसूना नाम्- नि. आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभ' इत्यमरः - ये केसरनिकराः किञ्जल्कपुञ्जाः - तेषां ये भरास्समृद्धयः - तेषामा - मोदेन परिमळविशेषण - मूर्छिता व्याप्ता - दिगन्ता यस्मिन् तस्मिन्। मधुरेण माधुर्यगुणयुक्तेन - मधुना मकरन्देन - विधुरा विह्वला - - उन्मत्ता इति यावत् - मधुपा भृङ्गा यस्मिन् तस्मिन्नित्थमस्योक्त मुदपिकत्वमित्यर्थः । मधौ वसन्ते। कस्य जनस्य स्त्रियो वा पुरु - षस्य वेत्यर्थः । उत्कण्ठा संभोगौत्सुक्यं । न भवेन्नोत्पद्येत अतस्सर्व- स्यापि उत्पद्यत एवेत्यर्थः - अतो मानत्यागो युज्यत इति भावः ।।

अनुप्रासः शब्दालंकारः ॥ वृत्तं पूर्ववत् ॥
अच्छाच्छ चन्दनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौमुदी च।
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं व विवर्धयन्ति ।। ८५

 व्या---अथ त्रिभिर्ग्रीष्मं वर्णयति- अच्छाच्छेति.--अच्छा च्छोऽति स्वच्छो - यश्चन्दनरसः पाटीरद्रवः - नि. 'गुणे रागे द्रवे रमः' इत्यमरः । तेन - आर्द्रतरा अत्यन्तार्द्रास्सन्तापशान्त्यर्थं