पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
ऋतुवर्णनपद्धतिः


फ्लान्तिवितानतानवकृतः ६७ करोतेः क्विप् । अल्पा मन्दाः । ते प्रसि द्धाशैल्यमान्धसौरभ्ययुक्ताः । श्रीखण्डशैलानिला मलयमारुताः वान्ति प्रसरन्ति * ' वागतिगन्धनयोः' इति धातोर्लट् । एतेन विरहिणां दुरन्तदुःखजनकत्व संयुक्तानां परमानन्दकत्वं चास्योक्त - मित्यवगन्तव्यम् ॥  अत्र वियोगाग्निरित्यत्र रूपकम् ; आहुतिकलामित्यत्रोपमया सापेक्षितत्वात्संकीर्णं सच्छाब्देनानुप्रासेन संकीर्यते।। वृत्तं पूर्ववत् ।।

प्रथितः प्रणयवतीनां तावत्पद मातनोतु हृदि मानः ।
भवति न यावच्चन्दनतरुसुरभिर्मलयपवमानः॥ ८५

 व्या.---प्रथित इति--प्रथितः प्रसिद्धः दृढतर इति यावत्। मानः प्रियतमस्यान्यस्त्रीसङ्गित्वजनितेश्याकृतेकापः -  स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये ।  श्रुते वानुमिते दृष्टे । इति दशरूपके । प्रणयवतीनां प्रियतमानां। हदि । तावत्तावत्पर्यन्तं । पदं स्थानं । आत- नोतु करोतु - तिष्ठत्वित्यर्थः ॐ सम्भावनायां लोट् - नि. 'पदं व्यव- सितत्राणस्थान लक्ष्माङ्घिवस्तुषु' इत्यमरः । कियत्पर्यन्तमित्यत आह- चन्दनतरुसुरभिः श्रीखण्डद्रमपरिशीलनसुगन्धिनः - नि. 'सुगन्धौ च मनोज्ञे च सुरभिर्याच्यलिङ्गवत्' इति विश्वः - मलयपवमानो मलयमारुतः । यावत्पर्यन्तं । न भवति न प्रसरति । तावदिति संब - न्धः - सामान्यस्य विशेषपर्यवसानात्प्रसरणार्थत्वं भुवो द्रष्टव्यम् । नि. 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' इत्यमरः' अस्यात्य -