पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
शृङ्गारशतके


कर्तरिक्त प्रत्ययः * · मत्तिबुद्धि पूजार्थेभ्यश्च' इति चकारात् वर्तमा- नता - नि. ' अथ पुष्परसे मधु । दैत्ये वसन्ते चैत्रे च' इति विश्व- प्रकाशः ॥ हरिणीवृत्तम् ॥

मधुरयं मधुरैरपि कोकिला
कलरवैर्मलयस्य च वायुभिः ।
विरहिण : प्रहिणस्ति शरीरिणो
विपदि हन्त सुधाऽपि विषायते।। ८२

 व्या.---मधुरिति.-~-अयं पूर्वोक्तो मधुर्वसन्तः - सकलचरा- चरोल्लासकर इति भावः। मधुरैः श्राव्यैस्संतापहरैर्वा · शीतली. क्रियते तापो येन तन्मधुरं स्मृतम्' इति लक्षणात्। कोकिलानां पिकसुन्दरीणां - कलरवैरव्यक्त मनोहरैः स्वरविशेषैः - नि. ' काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । कलः' इत्यमरः - कोकिले - त्यत्र जातिग्रहणेऽपि कोकिला जातावपि' इति न ङीप् । तथा मलयस्य वायुभिः श्रीखण्डशैलानिलैश्च-अत्यन्तसुखावहैरपीति भावः । विरहिणः शरीरिणः वियोगिजनान् । प्रहिणास्त विनाशयति । तथाहि । विपदि आपत्काले सुधा अमृतमपि विषायते विषमिवाचरति - तद्व- त्प्राणप्रयाणकारी भवतीत्यर्थः * उपमानादाचारे' इति क्यच् * 'अकृत्सार्वधातुकयोदीर्घ'ः इति दीर्घः । हन्तेति विषादे- नि: 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः' इत्यमरः॥   सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः; स च विषा यते इत्यत्रउपमया अङ्गेन सङ्कीर्यते ॥ अनुप्रासश्शाब्दः ॥ द्रुतविल - म्बितवृत्तम् ॥