पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
शृङ्गारशतके


पराशरो व्यासपिता - तौ प्रभृती येषां ते तथोक्ताः - प्रभृतिशब्देन शाण्डिल्यादयोऽपि सङ्गह्यन्ते। ये महर्षयस्सन्तीति शेषः । तेऽपि। सुललितमतिसुन्दरम् - नि.- ललितं त्रिषु सुन्दरम्' इति शब्दार्णवे- . स्त्रीणां मेनका रम्भा सत्यवती धान्यमालिन्यादियोषितां । मुखपङ्कजं। दृष्ट्वैवावलोक्येव । मोहं गताः तत्परतन्त्रा जाताः - नस्विन्द्रियनिग्रह- समर्था इत्यर्थः । किंतु ये। मानवास्साधारणमर्त्याः । सघृतमाज्य- प्लुतं। तदधि पयसा क्षीरेण - दध्ना च युतं मिश्रितं शाल्यन्नं कल- माख्यब्रीह्यन्नम् - अत्यन्तवीर्यवृद्धिकरं मृष्टान्नमित्यर्थः। भुञ्जते अभ्य- वहरन्ति भुजोऽनवने' इत्यात्मनेपदम् । तेषां मानवानामिन्द्रिय- निग्रहइन्द्रियनियमस्संम्भवेद्यदि। तदा विन्ध्यः पर्वनः। सागरे। प्लवेत् उन्मज्जेत्। न तु कदाचिदपि विन्ध्यः प्लवति - ग्रावप्लवन स्याश्रुतचरत्वात् - तथाच विन्ध्यप्लवनस्य यथा असंभावितत्वं तथा इन्द्रियनिग्रहस्थापीत्यर्थः । वाताद्यशनानां ऋषीणामवैतादृशावस्थापन् नत्वम्। किमुत मृष्टान्नभोजिनां मानवानामिति भावः ।। अत्रेन्द्रियाणां निग्रह संबधेऽपि विन्ध्यप्लवनदृष्टान्तेनासंबन्धो- क्तेस्संवन्धेऽसंबन्धरूपातिशयोक्तिः ॥ शार्दूलविक्रीडितम् ॥   इति शृङ्गारशतकेविरक्तपद्धति सम्पूर्णा ॥

॥ ऋतुवर्णनम् ॥

परिमळभृतो वाताः शाखा नवाकुरकोटयो
मधुरविधुरोत्कण्ठामाजः प्रियाः पिकपक्षिणाम् ।