पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
शृङ्गारशतके


भवतीति प्रसिद्धिः - अत एवंभूत इत्यर्थः-यद्वा-चौर्येणान्नादिभक्षणे तद्दण्डनार्थ भ्राष्ट्रं मध्ये छिद्रं कृत्वा गळे आसञ्जयन्ति-तस्मादित्थंभूत इत्यर्थः । एवं जुगुप्सितोऽपि । श्वा शुनकः । शुनीं सारमेयीमन्वेत्यनु- सरति-निधुवनार्थमिति भावः। तथा हि - हतं विनष्टमपि । मदनो हन्त्येव मनोविकारोल्पादनेन पीडयत्येव - न तु हतहननमन्या- य्यमिति विचारयतीत्यर्थः । शठोऽयं मदनः कं वा कथंभूतावस्थापन्नं न करोतीति भावः। अत्र एवकारोऽत्यन्तायोगव्यवच्छेदार्थः - 'पार्थोधनुर्धरो भवत्येव' इत्युदाहृत्य क्रियागतैवकारस्य तथाभूतार्थ- कत्वानुशासनात् । शिखरिणीवृत्तम् ॥

स्त्रीमुद्रां कुसुमायुधस्य परमां सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ।। ७९

 व्या.---- स्त्रीमुद्रामिति-सर्वार्थानां संपदं करोतीति सर्वार्थ- संपत्करीम्-धर्माऽर्थ कामपुरुषार्थसमृद्धिहेतुभूतमित्यर्थः * ' कृञो हेतुताच्छील्यानुलोम्येष्विति टप्रत्ययः - टित्त्वान्ङीप्। कुसुमायु- धस्य जगज्जैत्रस्य मन्मथस्य। जयिनीम् जयावहामित्यर्थः 'जिदक्षि' इत्यादिना इनि प्रत्ययः । स्त्रीमुद्रां स्त्रीरूपचिह्नां । प्रविहाय यक्ता। ये कुधियो दुर्बुद्धयः। अत एव मूढाः कर्तव्याकर्तव्यविचा रशून्याः मिथ्याफलान्वेषिणः अभूतपरत्वादसत्यप्रायमोक्षफलकाङ्क्षि- णस्सन्तः। यान्ति प्रव्रजन्तीत्यर्थः । ते मूढास्तेन निजमुद्राहासजनि- तकोपेन । कुसुमेपुणैव । निर्दयतरं दयाहीनं यथा तथा! निहत्य