पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
विद्वत्पद्धतिः

दाहकृत् लौकिकोऽग्निरिति मन्तव्यम्। जलंन उदकेन। वारयितुं निवारयितुम् । शक्यं। एवंरीत्या। सूर्षातपस्सूर्यस्य रवेरातपः। छत्रेण वारयितुं शक्य इति पदद्वयस्योत्तरत्राप्यनुषङ्ग इति। मन्तव्यं समदः मदसहितः । नागेन्द्रः गजश्रेष्ठः । निशिताङ्कशेन तीक्ष्णाङ्क- शेन । गौः वृषभः । गर्दभो रासभश्च । दण्डेण। व्याधिः कुष्टादि- रोगः। भेषजसंग्रहैः औषधसंग्रहणैश्च । अत्र चकारात् महामन्त्रजप- होमसुरार्चनदानादिकमपि गृह्यते - 'तच्छान्तिरौपधैर्दानैपहोमसुरा र्चनैरि' ति स्मरणात्। विषं कालकूटादि। विविधैर्नानाविधैः। मन्त्रैः मन्तारं त्रायन्ते रक्षन्तीति मन्त्राः - तैमन्त्रैः प्रणवादिभिः - विविधैः प्रयोगैश्च। निवारयितुं शक्यमित्यर्थः। तस्मात् सर्वस्य प्राणिहिंसा- कारणीभूतदुष्टजन्तुजातस्य । शास्त्रविहितं शास्त्रविधिोदितमौषधं जलादिरूपभेषजम् । अस्ति । मूर्खस्य तु । औषधं सुभाषितादिरूपं । नास्ति शास्त्रविहितं न वर्तते ।।

इति नातिशतक पूर्वपद्धति सम्पूर्णा ।।

॥ विद्वत्पद्धतिः ॥

शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमाः
विख्याताः कवयो वसन्ति विषये यस्य प्रभो निर्धनाः ।
तज्जाड्यं वसुधाधिपस्य सुधियस्त्वर्थं विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षकैर्न मणयो यैरर्घतः पातिताः ॥ १२ ॥

 व्या.-अथ मुर्खपद्धतित्रैलक्षण्येन विद्वत्पद्धति वर्णयति ; यद्वा । यदुक्तं विवेकस्यात्यन्तावश्यकत्वं । तस्य शास्त्रपरिज्ञानसाध्य