पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८५
दुर्विरक्तपद्धतिः


'तावद्विवेकविभवस्तावत्सन्मार्गवर्तनं पुंसाम् ।
. निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥ इति ।।
• अत्र द्वितीयार्धंे समस्तवस्तुवर्तिसावयवरूपकालंकारः।
         स्रग्धरावृत्तम् ।।

उन्मत्तप्रेमसंरम्भादारमन्ते यदङ्गनाः ।।
तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ ७५

 व्या.-किं बहुना ब्रह्माऽप्यङ्गनोद्योगप्रत्यूहाचरणे न धीरो भवतीत्याह - उन्मत्तेति..-अङ्गनाः स्त्रियः । उन्मत्तोऽत्युत्कटो - यः प्रेमा अनुराग - स्तस्य संरम्भात्संभ्रमात् - नि. 'संरम्भस्संभ्रमे कोपे' इति विश्वः । यत्कर्म आरभन्ते विहितमविहितं वा कर्तुमुद्यु- ञ्जते तदित्यर्थः - तत्र कर्मणि। प्रत्यूहं विघ्नं - नि। विघ्नोऽन्त - रायः प्रत्यूहः इत्यमरः । आधातुं कर्तुं । ब्रह्माऽपि किमुताऽन्य इति भावः । कातरस्सभयः - असमर्थः - खल्वित्यर्थः - अनिवार्यनिश्च - यानामनावृतानामङ्गनानां को नाम निवारयितेति भावः ।। अनुष्टुप् .

तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता।।
यावज्ज्वलति नाङ्गेषु हतः पञ्चेषुपावकः ॥ ७६

 व्या.----तावदिति - महत्त्वं महानुभावत्वं पाण्डित्यं प्राज्ञ - त्वम् । कुलीनत्वं'महाकुलप्रसूतत्वं क ' कुलात्खः ' इति खप्रत्ययः । विवेकिता कर्तव्याकर्तव्यविचारचतुरत्वं च । तावत्तावत्पर्यन्तमेव भवतीति शेषः । यावत् हतो नीचः अश्लाध्यतापादकत्वानिकृष्टः । पञ्च अरविन्दादय इषवो बाणा यस्य सः पञ्चेषुः मदन - स्स एव पावकोऽग्निः । अङ्गेषु । न ज्वलति नाविर्भवति • न सन्तापयती-