पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
दुर्विरक्तपद्धतिः

अतः परप्रतारक इति भावः - नि. स्त्रियां बहुष्वप्सरसस्स्वर्वेश्या उर्वशीमुखा' इत्यमरः - स्वपरप्रतारक' इति पाठेऽध्ययमेवार्थः । योऽळीकपण्डितः पण्डितमानी - रहस्यानभिज्ञ इत्यर्थः । युवतीः निन्दति - असौ स्वस्य परेषां च प्रतारकः - आत्मवञ्चकः परवंचक- श्वेत्यर्थः - कुतः - यस्माविशेषसमान स्वपरफलवेदन बोधनयोः परिज्ञानाभावादुभयवञ्चक इत्यर्थः ॥ आर्याभेदः ।।

मत्तेभकुम्भदळने भुवि सन्ति धीराः
केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ।
किंतु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदळले बिरला मनुष्याः ॥ ७३

व्या-अथ मन्नथस्यात्यन्त दुर्जेयत्वमाह - मत्तेभेति.-- भुवि भूलोके मत्तेभानां मतमातङ्गानां - कुम्भदलने कुम्भस्थलविदा- रणे - समर्था इति शेषः - धीराः शूरास्सन्ति। तथा केचित्पुरुषाः प्रचण्डोऽत्यन्तकोपनः - यो मृगराजः सिंहस्तस्य बधे हिंसायां । दक्षास्समर्थास्सन्ति - गजघातिभ्योऽप्युत्तमाश्शूरास्सम्भवन्तीत्यर्थः । किन्तु बलिनां बलाढ्याना शूराणाम् - ज्ञानवलशालिमामिति च गम्यते । पुरतोऽग्रे । ब्रवीमि निश्शङ्कं करमुद्धृत्य सडिण्डिमघोषमुद्धो- पयामीत्यर्थः । किमुद्धोषयसीत्यत आह - प्रसह्य बलात् - भुजबलाद्बु- द्धिबलाच्चेत्यर्थः । कन्दर्पदलने मदनमदविदारणे ! समर्थाः मनुष्याः। विरळा मृग्याः - प्रायशो न सन्तीत्यर्थः - शंभुं तद्भक्तांश्च विना मद- नविजयिनो न सन्त्येवेति शिवभक्ताग्रेसरस्य कवेर्निगूढतराभिसन्धिः.