पश्यति. अयमेव वेदान्त सिद्धान्त इति भावः । अतो विवेकस्य परश्रेयोहेतुत्वात्तदधिगमार्थमेवं यत्नःकर्तव्य इति तात्पर्यम् ।। रूपकालंकारः ॥ वृत्तं पूर्ववत् ।। इति शृङ्गारशतके सुविरक्तपद्धतिः संपूर्णा ॥
॥दुर्विरक्तपद्धतिः ॥
तावदेव कृतिनामपि स्फुरत्येष निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षु ताडयते चटुललोचनाञ्चलैः ॥७०
व्या.-- अथैतद्वैलक्षण्येन दुर्विरक्तपद्धतिमाह - तत्रादौ - यदुक्तं कृतिनो विवेकस्फुरणमिति तदेतदपवदति - तावदिति.- । कृतमेभिः कृतिनस्तेषां कुशलानामपि * · इष्टादिभ्यश्चे' तीनि - प्रत्ययः - एष पूर्वोक्तो । निर्मलो निष्कलङ्को विवेकस्तत्त्वावबोध एव दीपःस्वार्थे कः । तावत्तावत्पर्यन्तमेव । स्फुरत्ति दीप्यते । कियत्प- र्यन्तमित्याकांक्षायामाह - कुरङ्गचक्षुषां हरिणलोचनानां । चटुलानि - चञ्चलानि - लोचनाञ्चलानि कटाक्षवीक्षणानि - तै: • कलाप्रायै - रिति भावः। यावत् यावत्पर्यन्तमेव । न ताडयते न निहन्यते - नावलोक्यत इत्यर्थः - तावदेवेति संबन्धः । विवेककुशलोऽपि जन: कामिनीकटाक्षवीक्षितः को वा विवेकनिर्वहणदक्ष इति भावः। यद्यपि नि. ' अञ्चलं त्वंशुकान्तेस्यादि' त्यमरः - तथाऽपि अन्तिमत्वसा - म्यादौपचारिकोऽयं निर्देश इति मन्तव्यम् ।। रथोद्धता ।।
वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम् ।