पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७९
सुविरक्तपद्धतिः

 हरिणीवृत्तम् - लक्षणं तूक्तम् ॥

यदा योगाभ्यासव्यसनकृशयोरात्ममनसो
रविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किमु तैः ।
प्रियागावालापैरधर मधुभिर्वक्त्रविधुभिः
सनिष्वासामोदैः सकुचकलशाश्लेषसुरतैः ।। ६८

 व्या.---.एवं सांख्यरीत्या वैराग्यमुक्त्वा संप्रति योगमतानु - सारेणाह - यदेति-यदा यस्मिन समये - यस्येत्यध्याहारः - उत्त - रत्र तच्छब्दसद्भावात् - तथा च यस्य संबन्धिनः। योगाभ्यास अष्टा ङ्गयोगपरिशीलने - यद्यमनमासक्ति-स्तेन कृशयोस्तत्परतन्त्रयोरित्यर्थः । आत्ममनसोः प्रत्यगात्माडन्तःकरणयोः मैत्री मित्रत्वं - मैत्री व्या- ख्याता । स्फुरति प्रकाशते - योगाभ्यासवशेनाशेषबाह्यविषयान्परि - त्यज्य यदात्माराममेव मनो भवतीत्यर्थः । तदा तस्य कृतिनो धन्य- स्य ? 'इष्टादिम्य श्वे' तीनिप्रत्ययः । तैः किमु - न किमपीत्यर्थः । ते क इत्याशङ्कायामाह - प्रियाणां प्रियतमानां सम्बन्धिभिरालापैः श्रोत्रसुखावह मृदुमधुरव्याहारैश्च । अधरमधुभिः रसनेन्द्रियप्री- तिजनकाऽधरामृतैश्च । तथा निश्वासामोदेन सह सनि- श्वासामोदैः पद्मिनीजातित्वान्निश्वासकघ्राणतर्पणगन्धसंबन्धबन्धुरै . रित्यर्थः । वक्त्रविधुभिर्नयनानन्दकरमुखचन्द्रैश्च - अत्र चन्द्रस्यैक - त्वेऽपि मुखबाहुळ्यात् बहुलत्वसिद्धिः। तथा सकुचकलशाश्लेषाणि कुचकुम्भालिङ्गनसहितानि - यानि सुरतानि त्वगुपस्थेन्द्रियामन्दाना दकरबाह्याभ्यन्तरसंभोगविशेषाः - तैश्च - एवमशेषेन्द्रियग्राम-