पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
शृङ्गारशतके

स्त्रीमुखं तथाऽप्युक्तरीत्या कश्मलसंपर्कात् हेयतया चुम्बनानर्हत्या न्नचुम्बनीयमिति तात्पर्यम् - नि.-'शरावो वर्धमानक' इत्यमरः ॥  अत्र रूपकोपमानुप्रासानां संसृष्टिः ।।

मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् ।
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताडयते ॥ ६०

 व्या.----स्त्रियः बाह्यमधुराः अन्तर्विषाः । अत एव सर्वथा त्याज्या एव न तु ग्राह्या इत्यभिप्रायेणाह - मध्विति.---योषितां स्त्रीणां । वाचि । मधु क्षौद्रं तिष्ठति हृदि हृदये । केवलं प्राधान्येन हालाहलमेव कालकूटविषमेव । अत एव अस्मात्कारणादेव। अधरः अधरोष्ठः । निपीयते अत्र मधु वर्तत इति मत्त्वैव सर्वजनैः आदृत्य नितरां पीयते हृदयं मुष्टिभिः- ताडयते अत्र विषं वर्तत इति मत्वैव सर्वजनैः ताडनं क्रियते । अतः स्त्रियः स्ववचनेषु केवलंमधुधारास्रा- विण्यः - हृदये विषतुल्याभिप्रायवत्यश्च - इति पूर्वार्धे प्रदर्शितम् । उत्तरार्धे तु प्रथमपादे मधुग्रहणं च द्वितीयपादे हालाहलस्थानहदय- ताड़नं चेति प्रदर्शित मित्यभिप्रायः अत्र उत्प्रेक्षातिशयोक्ति काव्यलिङ्ग ध्वनिभेदानां संसृष्टिः ॥                         इति शृङ्गारशतके कामिनीगहणं सम्पूर्णम् ।।


          ॥ सुविरक्तपद्धतिः ॥

धन्यास्तएव धवळायतलोचनानां
तारुण्यदर्पधनपीनपयोधराणाम् ।