पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
शृङ्गारशतके

दुर्मुखाय मुखराय बहुगर्ह्यभाषणदूषितवदनायेत्यर्थः - नि.-- 'दुर्मुखे मुखराबद्धमुखा वित्यमरः। यद्वा-दुष्टं व्याध्यादिना जुगुप्सितं-दुर्ग- न्धयुक्तं वा-मुखं यस्य तस्मै । जरया विस्त्रसया - जीर्णानि शिथिलानि कृशानि विश्लथसन्धिबन्धानि च - अखिलाङ्गानि करचरणाद्यशेषाव- यवा - यस्य तस्मै च। ग्रामीणाय ग्रामान्तरादागताय - अज्ञातकुल. गोत्राय पान्थाय चेत्यर्थः । किंबहुना - गळत स्रंसमानं - कुष्ठं कुष्ठ- जनितपूयरक्तादि - तेनाभिभूताय - गर्हिताय च। लक्ष्मीलवश्रद्धया संपल्लेशप्राप्त्याशया। मनोहरमतिसुन्दरं । निजवपुः स्वशरीरं। यच्छ- न्तीष्वर्यन्तीषु - चुम्बनाश्लेषणदन्तनखक्रमादिसंभोगार्थ तदधीनं कुर्वतीष्वित्यर्थः ददाते र्दाण्दाने' इत्यस्माद्धातोश्शतरि उगि- तश्चे' ति ङीप् * 'पाघ्राध्मे' त्यादिना दागो यच्छादेशः । तथा। विवेकः कर्तव्याकर्तव्यविचारस्स एव कल्पलतिका - तस्या-श्शस्त्रीषु छुरिकासु-विवेकविच्छेदकरीष्वित्यर्थः- विवेकस्याप्यखिलार्थसंघटकत्वा- स्कल्पलतिकारूपणमवगन्तव्यं - नि स्याच्छस्त्री चासिपुत्ती च च्छुरिका चासिधेनुके' त्यमरः ॐ वह्मादिभ्यश्चे' ति ङीप्। पण्य- स्त्रीषु वेश्याङ्गनासु। कः पुमान् विवेकरहितोऽपीत्यर्थः । रज्येतानु- रक्तो भवेन्नकोऽपीत्यर्थः - नि.--' वारस्त्री गणिका वेश्या सुलावण्या- ङ्गनाऽपिचे' ति वैजयन्ती ॥ शार्दूलविक्रीडितम् ।।

वेश्यासौ मदनज्वाला रूपेन्धनसमेधिता।
कामिभि र्यत्रहूयन्ते यौवनानि धनानि च ॥

व्या...वेश्येति.---असौ वेश्यारूपं सौन्दर्यमेवेन्धनानि - तैः समिद्धिर्विवर्धिता प्रवर्धिता-मन्मथज्याला मन्मथाग्निज्वाला - नि.-