पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
१५७
कामिनीगर्हणम्

जनसमुदायस्य । माशो बन्धनसाधनं । स्त्रीयन्त्रं स्त्रीरूपकीलकं । केन सृष्टं निर्मितं । ईदृगनर्थाशयन्त्रनिर्मातृत्वेन अस्य कुत्सितत्वमेवेत्यर्थः अत एव केनेत्युक्तं । यद्वा यद्यपि ब्रह्मणैव सृष्टं तथाऽपि ईदृग्दुर्यन्त्र- निर्मातृत्वेन तस्य नामोच्चारणमपि कर्तुं न बुज्यत इति केनेत्युक्तम् ।।   अत्र स्त्रीयन्त्रे पट्टणादिरूपणानिरवयवरूपकालंकारः - तदु - क्तम्

'आरोपविषयस्य स्यादत्तिरोहितरूपिणः।
उपरञ्जकमारोप्यमाणं तद्रूपकम् मतम् ॥ हति' ॥

        स्रग्धरावृत्तम् ।।

नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर
द्वन्द्वं लोचनतां गतं न कनकै रप्यङ्गयष्टिः कृता ।
कि त्वेवं कविभिः प्रतारितनास्तत्त्वं विजाननीय
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दोजनः सेवते॥ ४६

 व्या--इत्थमनर्थैकतन्त्रमपि स्त्रीयन्त्रं कविवाक्प्रपञ्चवञ्चित्तो भूढोऽनुवर्तत इत्याह-नो इति... एष परिदृश्यमानो मृगाकश्चन्द्र स्सत्येन यथार्थेन । अवदनं वदनं संपद्यमानो वदनीभूतः वदनत्वेन परिणत इत्यर्थः - नो न भवतीति शेषः * अभूततद्भावे च्विः * " ऊर्यादिच्चिडाचश्चे' ति गतिसंज्ञायां * · कुगतिप्रादय' इति समासः । तथा इन्दीवरद्वन्द्वं नीलोत्पलयुगलं * · द्वन्द्वं रहस्ये' 'त्यादिना निपातः। लोचनतां लोचनभावं च • न गतं * - तस्य भाव स्त्वतला विति तल् प्रत्ययः । तथा कनकैस्सुवर्णदलैः - यथा चाम्पे- यप्रसूनैरित्यर्थः - काऽपि चाम्पेयगौरीति पद्मिनीस्वरूपनिरूप -