पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
शृङ्गारशतके

अमेध्यपूर्णं क्रिमिजन्तुसंकुलं स्वभावदुर्गन्धमशौचमध्रुवम् । कळेबरे मूत्रपुरीषभाजने रमेत भुढो न रमेत पण्डितः ॥ इति वचनात्पण्डितस्येत्यं जुगुप्सितकामिनीकळेबरे रमणमेव नास्ति । तथाऽपि मोहस्यात्यन्तप्राबल्यप्रकटनार्थमित्थमुक्तमित्यवगन्तव्यम् ॥ अत्र क्रियाणां बह्वीनां समुचितत्वास्क्रियासमुच्चयालंकारः - एक विषयः - *गुणक्रियायौगपद्यमलंकारस्समुच्चयः' इति लक्षणाता। शार्दूलविक्रीडितम् - 'सूर्याश्वैर्मसजस्ततास्सगुरवः शार्दूल' विक्रीडितम् ॥

स्मृता भवति तापाय दृष्टा चोन्मादकारिणी।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ ४२

 व्या.-अथ त्रिभिरानुष्ठुभैः स्वरूपं दूषयति-स्मृतेति.-या स्मृता सदशदृष्टिचिन्तादिस्मृतिबीजोद्वोधकसद्भाववशात्प्रवासे कदा - चित्स्मरणविषयीकृता सती। तापाय भवतीत्यर्थः । ततः दृष्टा सती। उन्मादकारिणी चित्तभ्रमकरी भवति । स्पृष्टा । आलिङ्गिता सती। मोहाय भवति बहिः प्रपञ्चविस्मरणकारिणी भवति । अतस्सा वधूः । कथं नाम कुतो वा-दयिता प्रियतमा न कथंधिदपीत्यर्थः । किंतु उक्तबह्वनर्थहेतुभूतत्वात अप्रियतमैवेति भावः ॥  अत्र 'स्मृता भवति तापायेति पदार्थानां विशेषणगत्या तुरी- यपादस्यपदार्थं प्रति हेतुत्वाकाव्यलिङ्गभेदः ॥

तावदेवामृतमयी यावलोचनगोचरा।
चक्षुष्पथा दतीता तु विषादप्यतिरिच्यते ।।  ४३