पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
१४५
पक्षद्वयनिरूपणम्

इति वचनान्देदमेवात्यन्तपुण्यमित्यर्थः । अथास्मिन्संसारे च । कुघलयदृश उत्पलाक्ष्याः क । "अन्यारादितरतें". इत्यादिना पञ्चमी । अपरं अन्यत् । रम्यं वस्तु नास्ति - इयमेवात्यन्तं मनोहरेत्यर्थः; अतो दोषदृष्ट्या विषयान्परित्यज्य शमसुखानुभवतात्पर्येण स्थात- व्यम् । अन्यथा परहिताचरण तत्परेण सांसारिकतया या वर्तित- व्यम् । न तु प्रकारान्तरेणेति भावः ॥  शिखरिणी ॥

मात्सर्यमुत्सार्य विचार्य कार्य
मार्याः समर्यादमिदं वदन्तु ।
सेव्या नितम्बाः किमु भूधराणा
मुत स्मरस्मेरविलासिनीनाम् ॥ ३६

  व्या --मात्सर्यमिति.-~-आर्याः पण्डिताः ‘मात्सर्यं असू - यां - पक्षपातमिति यावत् । उत्सार्य निराकृत्य - तस्य यथार्थकथन प्रतिबन्धकत्वादिति भावः। कार्यं कर्तुं योग्यं-विधेयमित्यर्थः। विचार्य ऊहापोहाभ्यां सम्यगालोच्य । ततः । समर्यादं मर्यादया सन्मार्गानतिक्रमणेन सहितं यथा भवनि तथा । इदं एतत् । वदन्तु कथयन्तु । किमिदमित्यत आह - धरन्तीति धराः पचाद्यच् - भुवोधरा भूधरास्तेषां भूधराणां । नितम्बाः कटकप्रदेशाः । सेव्याः किमु आश्रयणीया वा। उत अथवा स्मरस्मेराः स्मरोल्लसिताः-मदनम- दोत्कटा इत्यर्थः - यद्वा स्मरेण मन्मथावेशन हेतुना - स्मेराः संभोगौ- त्सुक्यसूचक मन्दस्मित सुन्दरवदनारविन्दा इत्यर्थः । 'ष्मिङ्ईषद्धसने ' इति धातोः । नमिकम्पि - ' इत्यादिना रप्रत्ययः - 10