पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
शृङ्गारशतके

'पाणी पादतले रक्ते नेत्रान्तश्च नखस्तथा ।
तालुजिह्वाऽधरोष्ठं च सप्तरक्तस्सुखी भवेत् ॥  इति.

मालिनी.

असाराः सन्त्वेते वोरतिवोरसा वाथ विषया
जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदमिति ।
तथाऽप्येतद्भूमौ न हि परहितात्पुण्यमधिकं
न चास्मिन् संसारे कुवलयदृशो रम्य मपरम् ॥  ३५

 व्या--असारा इति. ते प्रसिद्धाः । सर्वे । पापहेतुत्वात्- पापा:-विषयाः शब्दादयः-स्रक्चन्दन वनितादयो वा । असारा. अस्थिराः - निस्सारा इति वा- नि. ' सारो बले स्थिरां शेष' इत्य- भिधानात् तथा। विरतौ परिणतिसमये - विरसाः अनर्थकरा इति - वा। यद्वा सकलदोषास्पदम् राग द्वेष मोहाद्यशेषदोषदोषा इति वा । आस्पदं प्रतिष्ठायाम् ' इति निपातनात्सुडागमः - लिङ्ग वचनव्यत्ययस्तु पूर्ववदृष्टव्यः । जुगुप्स्यन्तां परित्यज्यन्ताम् परित्यागे- परमसुखलाभादिति भावः । तथा च वक्ष्यति----- ' स्वयं त्यक्ता ह्येते शमसुख्मनन्तं विदधति' इति । ' गुपेर्निन्दायाम् ' इति सन्नन्तात् कर्मणि यकि विधौ लोटि तङ् ; तथाऽयुक्तप्रकारे विषयाणां जुगुप्स्यत्वेऽप्येतद्भूमौ अस्यां भुवि । परहितात् परोपकारकरणात्। अधिकं अतिरिक्तं । पुण्यं । न हि नास्तिखलु ॥

" श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।
परोपकारः पुण्याय पापाय परपीडनम् " ।