पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
शृङ्गारशतके

बन्धुः। तदुद्रेकमित्यर्थः: प्रकटितो-विविधो नानाविधः-स्पष्टः प्रकाशश्व- दोषप्रबन्धः पातकसंबन्धो - यस्य तत्तथोक्तम् , यौवनमिति शेषः । अतोऽस्मिन् लोके । तस्मा द्यौवना दन्यत् इतरत् । अनर्थाना मुक्तवि.. धानां - ब्रजस्य समूहस्य - कुलभवनम् उत्पत्तिनिकेतनं । नास्ति हि; इदमेवात्यन्तानर्थमूलमित्यर्थः । तदुक्तम्.---

  

यौवनं धनसंपत्तिः प्रभुत्व मविवेकिता ।
 एकैकमप्यनीय किमु यत्र चतुष्टयम् ?'॥  इति

शृङ्गारदुमनीरदे प्रसारक्रीडारसस्रोतसि
प्रद्युम्न प्रियवान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोर पार्वगविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयते प्राप्ते नवे यौवने ॥ ३०."

व्या.---इत्थं भूते यौवने कश्चिदेव निर्विक्रिय इत्याह - शृङ्गार इति.-शृङ्गारः संभोग विप्रलम्भ रूप शृङ्गाररस एव द्रुमो वृक्ष- स्तस्य नीरदे अम्बुवाहे - अङ्करितत्व कन्दलितत्व पल्लवितत्य पुष्पितत्व रूपावस्थाभिः परिपोषावह इत्यर्थः । प्रस्मृमरो व्यापनशीलो यः क्रीडारसो मन्मथ केलिरसस्तस्य स्रोतसि प्रवाहे - अविच्छेदेन प्रवर्तक इत्यर्थ:-अथवा प्रमृमरक्रीडानां रसस्रोनसि रसप्रवाहे - यथेच्छावि- हारान्वित इत्यर्थः - प्रसृमरे त्यत्र " सृघस्यदः कमरच् " प्रद्यु- म्नस्य कन्दर्पस्य - प्रियवान्धवे आप्तबन्धौकस्वार्थेऽण् प्रत्ययः - नि. 'प्रद्युम्नो मीनकेत्तनः । कन्दर्पो दर्पकोऽनङ्गः' इत्यमरः. धतुर - वाघो निपुणवाक्यान्येव - मुक्ताफलानि मौक्तिकमणयः - तेषा मुद. न्वति समुद्रे - सरससंलापोत्पत्तिनिकेतनभूत इत्यर्थः - । उदन्या