पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
शृङ्गारशतके

'स्मरमन्दी कृत व्रीडा प्रौढा संपूर्ण यौवना' इति लक्षणात्।। नायिकाः कामतन्त्र कुशलाः अनुकूलाच. स्वभावोक्ति रलंकार:--, ' स्वभावोक्ति रसौ चारु यथावद्वस्तुवर्णनम् ' इति लक्षणात् ।। मालिनीवृत्तम्,--

आमीलितनयनानां यः सुरतरसोऽनु संविदं भाति
मिथुनै भियोऽवधारित मवितथ मिदमेव कामनिर्वहणम् ॥

 व्या-- अथ ज्ञानपूर्वक एव सुरतानुभव: सार्थकः । न त्वन्य इत्याह---आमीलित इति.-आमीलितनयनानां सुखपार - वश्यादरमुकुळितनयनानां । यूनां यः सुरतरसः सुरतास्वादः । संविदं अनु ज्ञानमनुसृत्य भाति - अयमेतादृश इति ज्ञानगोचर - तया प्रतिभातीत्यर्थः । इदमेव ज्ञानपूर्वक सुरतानुभव प्रतिभान - मेव । अवितथं अव्यर्थम् - सार्थक मित्यर्थः - कामभ्य मन्मथस्य- कामपुरुषार्थस्य वा - निर्वहणं प्रतिष्ठापनम् - उज्जीवन मिति यावत्। न त्वन्यदाभासत्वादिति भावः - मिथुनैः रसज्ञैः स्त्रीपुरुषैः - नि. ' स्त्रीपुंसौ मिथुनं द्वन्द्वमि' त्यमरः । मिथोऽन्योन्यं । अक्धारितं निश्चितम् - अनुभविनामेवार्थनिश्चयसंभवादिति भावः - ज्ञान - पूर्वक सुरतानुभव एव कामपुरुषार्थ इति फलितार्थः । अत इत्थं भूत- सुरत मेव कर्तव्यम् - न स्वन्यादृशम् । तस्य क्लेशमात्रफलकवा : दिति तात्पर्यम् ॥   आर्यावृत्तभेदः ।।

इद मनुचित मक्रमश्च फंसा
यदिह जरास्वपि मान्मथा विकाराः।