पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
शृङ्गारशतके

अङ्गीकृताभिमुख्यमित्यर्थः । ततः प्रेमार्द्रं प्रणयरसपरिप्तुतम् । ततः स्पृहणीया अन्योन्य मभिलषणीया - निर्भरा उद्वेलाश्च-या रहःक्रीडा एकान्तकेलयः विस्त्रम्भविहारा इत्यर्थः - ताभिः प्रगल्भं प्रौढम्। ततो निस्सङ्गेनाप्रतिबन्धेन - अङ्गविकर्षणेन कुचायवयव मर्दनेन - अधिकं सुखं परमानन्दो-यस्मि स्त तथोक्तम्। कुलस्त्रीरतं स्वस्त्रीसंभोगः रम्यं सुन्दरम् - अत्यन्तमनोहरमिति यावत् ; एतच्च प्रथमसमागमपरत्वेन द्रष्टव्यम् । अन्यथोक्तव्यवहारासं- भावादिति भावः-कुलशब्दव्यावृत्तिसंभोगत्वादित आरभ्य प्रागल्भ्य- घटितत्वेनोक्तविलक्षणत्वादन्यादृशो द्रष्टव्यः ।। ___ नायिका तु मुग्धा। नायक स्तूत्तमोऽनुकूल: कामतन्त्रेषु निपुणः। अन्यथोक्तक्रमसंभोगासंभवादिति मन्तव्यम् ॥ संभोग. लक्षण मुक्तं रतिरहस्ये ॥

"अनुकूलौ निषेवेते यत्राऽन्योन्यं विलासिनौ ।
दर्शन स्पर्शनादीनि स संभोग उदाहृतः ॥”

  इति ।।

 अत्र मा मेति वागारम्भसूचितैः रनुभावै र्जाताभिलाष मित्युक्तेन रत्याख्यस्थायीभावेन सव्रीड मित्यनेनोपलक्षितैः संचा- रिभावैः अवशिष्ठै र्विशेषणौर्थायथं प्रतीयमानै रनुभावादि- विशेषैः कुलस्त्री इत्युक्तेनालम्बनविभावेन प्रतीयमानो रससार्वः भौमः शृङ्गारो निस्सङ्गाऽङ्गविकर्षणाऽधिकसुख मित्यनेन परिषो- पातिशयं प्राप्नोतीति वेदितव्यम् ।।

 शार्दूलविक्रीडितम् ॥