पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
संभोगवर्णनम्


वा। चन्दनं पाटीरपङ्कं च। वक्षसि। मदालसा मदेन मन्थरा। प्रियतमा गाढालिङ्गितमत्तकाशिनी च। इत्येपोऽयं समुदायः । स्वर्गः स्वर्गशब्दवाच्यः। आगमः एतद्ध्यतिरिक्त स्वर्गाभिधायक शास्त्रं तु। 'परिशिष्टः सदानभिज्ञत्वा दमुख्यः । स्वर्गपदवाच्यमुख्यार्थबोध- शून्य इत्यर्थः । अन्यथैतत्स्वर्गत्वेनैव वदेदिति भावः । स्वर्ग- समान सौख्यप्रदोऽय मेवेति परमार्थः. रथोद्धतावृत्तम्--- रात्रारा- विह रथोद्धता लगौ' इति लक्षणात ॥

प्राङ्मामेति मनागनागतरसं जाताभिलाषं ततः
सवीडं तदनु श्लधीकृततनु प्रत्यस्तधैर्य पुनः ।
प्रेमा स्पृहणीय निर्भर रहः क्रीडा प्रगल्भं ततो
निशंकाङ्ग विकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ २४

 व्या.--- अथाभ्यन्तरसंभोगं वर्णयितु मुपक्रमते--प्रागिति. -प्राक् प्रारम्भ। मनाक् अल्पं। मा मेति मास्तु मास्त्विति निषेध वचनेन । अनागतः अनुत्पन्नः रसोऽनुराग विशेषो यस्मि स्तत्। मौग्ध्यादिति भावः • ततो निषेधानन्तरं जातोऽ- ङ्कुरितोऽभिलाषो वाञ्छा यस्मि स्तत्तथोक्तम् । तदन्वभिलाषा- नन्तरं * अनुर्लक्षणे' इति कर्मप्रवचनीयवाहितीया। नीवी- विस्त्रंसनादिषु मन्दोद्यमनभावो व्रीडा तया सहसबीडम् - * : तेन- सह -' इति तुल्ययोगे बहुव्रीहिः । ॐ वोपसर्जनस्य' इति सह- भावस्य सत्वम् । अथ ब्रीडानन्तरं। श्लथोद्यम निराकरणे शिथिल- प्रयत्नम् । पुनरुद्यमनाभावानन्तरम् - पुनः शब्दोऽत्रानन्तर्यार्थकः। प्रध्वस्तं विगलितं - धैर्य प्रातिलोम्यलक्षणम् यस्मि स्तत्तथोक्तम् ।