विग्रहयोः शरीरयो:-नि. 'शरीरं वर्ष्म विग्रहः' इत्यमरः ।
अभेदम् ऐक्यम् । आशास्महे - तादृग्गाढालिङ्गनसुखमनुभवितु-
मभिलषामहे इत्यर्थः। तद्यथा---'प्रियया स्त्रिया संपरिष्वक्तो न
बाह्यं किञ्चन वेद नान्तरमेवमेवायं पुरुषः' इत्यादि श्रुतेः। प्रियतम
गाढालिङ्गनपरिष्वङ्गे विगलित वेद्यान्तरत्वेन ब्रह्मानन्द सब्रह्मचारि
सुखविशेषसंभवात्तथाविधालिङ्गानाशंसनं युक्तमेवेति भावः - तदुक्तं
रतिरहस्य----
“तत्सौख्यं परतत्ववेदन महाऽऽनन्दोपमं मूढधीः
को वा निन्दति सूक्ष्ममन्मथकला वैचित्र्यमूढो जनः ॥"
इति; अन्यत्राप्युक्तम्-- 'प्रौढालिङ्गनचुम्बनामितसुखं प्रच्छन्न वेद्यान्तरम् ' इति ; वृत्तं पूर्ववत् ॥
मालती शिरसि जम्भणोन्मुखी चन्दनं वपुषि कुङ्कुमाविलम् ।
वक्षसि प्रियतमा मदालसा स्वर्ग एष परिशिष्ट आगमः ॥२३
व्या.---एवं परमानन्दानुसंधायकत्वेन परिष्वङ्गस्यापवर्गत्व- मुक्त्वा संप्रति स्वर्गरूपत्वमाह.--मालती ति.--शिरसि मालती जातीकुसुममालिकेत्यर्थः-नि. 'सुमनामालती जातिः'-'पुष्पे जाती प्रभृतयः' इत्युभयत्राप्यमरः * *पुष्पमूलेषु बहुलम्' इति लुक् ।। मुखे । जृम्भणं मदनमदजनितजृम्भश्च - नि. 'जृम्भस्तु त्रिषु जृम्भणम्' इत्यमरः - यद्वा संभोगौत्सक्यसूचकरागविलासस्फूर्ति श्च। वपुषि। कुङ्कुमाविलं काश्मीरजमिश्रितं घुसृणरसमसृणितं