पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
संभोगवर्णनम्

 'चिर?त्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः ॥' इति लक्ष- णातू ।।  उपजातिवृत्तम् ॥

अदर्शने दर्शनमात्रकामा दृष्ट्वा परिष्वङ्गरसैकलोला ।
आलिङ्गितायां पुन रायताक्ष्या माशास्महे विग्रहयोरभेदम् ॥

 व्या.-अथ संभोगशृङ्गार:-स च बाह्याभ्यन्तर भेदेन द्विविधः। वात्स्यायनेनाप्यस्य द्विविधस्याऽपि प्रकारान्तरेण द्विधि- धत्व मुक्तम्-

"बाह्यमाभ्यन्तरं घेति सुरतं द्विविधं स्मृतम् ।
तत्राद्यं चुम्बनाश्लेषनखदन्तक्षतादिकम् ।।
द्वितीयं सुरतं साक्षान्नानाकरणकल्पितम् ॥” इति ।

तत्र प्रथममालिङ्गनरूपं सोपस्कारमाह द्वाभ्याम्-

 अदर्शन इति.---अत्र यत्तच्छब्दाध्याहारेणान्वयः कार्यः । अदर्शने प्रियतम विषयकदर्शनाभावे सति । क्वचित्प्रसज्य प्रति- षेधेऽपि नसमास इष्यते - यथा अदर्शनमश्रवणमभाषणमनु- चारण मित्याद्याभियुक्तोक्तेः। दर्शनमात्र एव कामोऽभिलाषो यस्याः सा तथोक्ता-तावन्मात्राभिलाषिणीत्यर्थः। ततो दृष्ट्वा । प्रियतममिति शेषः। परिष्वङ्गसुखे आलिङ्गनजनितसुखे - एकं मुख्यं यथा तथा - लोला सतृष्णा-नि. 'लोलश्चलसतृष्णयोः' इत्यमरः - था - आयताक्षीति शेषः। तस्यामायताक्ष्यां कर्णान्तविश्रान्तलोच- नायां प्रियतमायां। पुनरालिङ्गित्तायां संपरिष्वक्तायां सत्याम् ।