पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
शृङ्गारशतके

 व्या.-अथ संभोगविप्रलम्भभेदविभिन्नयोः शृङ्गारयो - मध्ये संभोग शृङ्गारं सप्रपञ्च मुत्तरत्र वर्णयिष्यन्नादौ विप्रलम्भशृङ्गा- रमेकेनाह.----विश्रभ्य इति - काचित्तन्धी कृशाङ्गी । वनद्रुमाणां । छायासु चन्द्रातपरहिताधःप्रदेशेषु - विश्रम्य विश्रभ्य पुनः पुनः श्रममपनीय * वीप्सायां द्विर्भावः नि, 'छाया त्वनातपे कान्तौ'- इति विश्वः। विचचार संचचार - केलीवनसंचारस्य विरहिजन' विनोदोपायत्वादिति भावः । कथं भूता सती ? करोद्धतेन हस्तो- त्क्षिप्तेन । स्तनोत्तरीयेण कुचकुम्भाच्छादनपटाञ्चलेन । शशिनश्चन्द्रस्य. मयूखान्किरणान् - आतपानिति यावत् । निवारयन्ती निराकुर्वन्ती- ग्रीष्मोष्मणो व्यजनेनेवेति भावः ; चन्द्रकिरणानां विरहिणीजनस- न्तापकरत्वात्तन्निवारणोक्तिः ; एतेन दशावस्थापक्षे षष्ठी मन्मथावस्था - तथा च चतुर्थी जागरावस्था - तथा उत्तरीयण शशिमयूखाना मनि- वारणीयत्वविवेकाभावाञ्चित्तविभ्रमप्रतीतेः कामशास्त्रोक्त द्वादशाव - स्थापक्षे दशमी उन्मा दावस्था सूच्यते - तन्वीत्यनेन कार्श्यावस्था च कार्थता - तदुक्तम्.--

" दृङ्मनस्सङ्ग संकल्पा जागरः कृशताऽरतिः।
हीत्यागोन्मादमूर्छान्ता इत्यनङ्गदशा दश" ॥ इति ;

कामशास्त्रोक्तास्तु-

"चक्षुः प्रीतिर्मनस्सङ्गः संकल्पोऽथ प्रलापिता ।
जागरः कार्श्य मरतिर्ळज्जात्यागोऽथ संज्वरः ।
उन्मादो मूर्छनं चैव मरणं चरमं विदुः"॥ इति ;

इयं च विरहोत्कण्ठिता----