पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१२२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
शृङ्गारशतके

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रं अपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्माविमावित्थं
तन्वि वपुः प्रशान्तमपि ते रागं करात्येव नः ॥ १२

 व्या.----अथ रागिणः शेषवैचित्र्यात्कामिनीप्रशंसापरं वच- न सम्बोधनमभिधायाह द्वाम्याम् - केशा इति - केशाः शिरो - रूहाः । संयमिनः संयताः सम्यङ्नियमभवन्तश्च । लोचेन अपि श्रुतेः परं पारं कर्मान्तविश्रान्तत्वं वेदान्तपरिशीलनतात्पर्य च गते । अन्तर् वक्त्रं वक्त्नाभ्यन्तरमपि । स्वभावतः निसर्गा-च्छुचिभिः शुभ्रैः पवि- त्रैश्च । द्विजानां दन्तानां विप्राणां च । नि. 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । गणैः । कीर्णं व्याप्तम् । इमौ एतौ इति हस्तनिर्देशः । पक्षोजकुम्भी कुचकुम्भौ । मुक्तानां मौक्तिकहाराणां जीवन्मुक्तानां च । सतताधिवासेन निरन्तरावस्थानेन सन्ततनिवासेन च। रुचिरौ-नि. 'मुक्तातु मौक्तिके मुक्त:'-"प्राप्तमुक्तौ तु मोचितः' इत्युभयत्रापि विश्वः। अतः हे तन्धि -- इत्यमुक्तप्रकारेण! ते वपुः शरीरं। प्रशान्तं प्रसन्नम् - वैराग्यसाधनसंपत्तिमदपीति यावत् * 'वादान्त' इत्यादिना निपा- तः । नोऽस्माकं । रागमनुरक्तिम् - सम्भोगाभिलाषमेवेति यावत् - करोति उत्पादयति - न तु वैराग्यमिति विरोधः - स चोक्तरीत्या आभासितत्वाद्विरोधाभासोऽलङ्कारः - ' आभासत्वे विरोधस्य विरो- धाभास इष्यते' इति लक्षणात् । स च श्लेषप्रतिभोत्थापित इति - तयोरङ्गाङ्गिभावेन संकरः ; लोचने अन्तर्वक्त्रमित्यत्र १ प्रगृह्यत्वा -