पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
शृङ्गारशतके

किंचिदूनविंशतिवार्षिकाः स्त्रिय इत्यर्थः। वित्रस्ता चकिता-मुग्धा - प्रौढाच-या हरिणी कुरङ्गी - तत्सदृशैः-तद्विलोकननिभैरित्यर्थः। कटाक्षै- रपाङ्गवीक्षणैः । एतेनैतासां पद्मिनीत्वं सूच्यते – 'चकितमृगदृगाभे प्रान्तरक्ते च नेत्रे' इति लक्षणात् । कस्य मनो । विवशं सम्मोहितं । न कुर्वन्ति। सर्वस्यापि कुर्वन्त्येवेत्यर्थः. तरुणीलक्षणमुक्तं रतिरहस्ये

 

"बाला स्यात् षोडशाब्दा तदुपरि तरुणी विंशतेर्यावदूर्ध्वं
प्रौढा स्यात् पञ्चपञ्चाशदवधि परतो वृद्धतामेति नारी ॥"

क्योलक्षण मुक्तम् -

 निदाघशरदोर्बाला पथ्या विषयिणो भवेत् ।
 हेमन्ते तरुणी योग्या प्रौढा वर्षावसन्तयोः ।
 सन्ततं सेव्यमानापि बाला प्रथयते बलम् ॥” इति.

अत्र राजहंसीपराजयस्य सादृश्यपर्यवसानादेका उपमा । हरिणीसदृशैरित्यत्र चान्या। अनयोः परस्परनैरपेक्ष्यात्सजातीयसंसृष्टिः एताश्चमध्यमानायिकाः । लज्जामन्मथमध्यस्था मध्यमोदितयौवना' इति लक्षणात् ॥ वसन्ततिलकावृत्तम् ॥

कुकुकुमपङ्ककळङ्कितदेहा गौरपयोधरकम्पितहारा ।
नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि रामा ॥ ९ ॥

व्या.---कुङ्कुमेति.---कुङ्कुमपङ्केन काश्मीरजकर्दमेन.-नि. 'अथ कुङ्कुमं । काश्मीरजन्माग्निशिखम्' - 'पङ्कोऽस्त्री शादकर्दमौ' इत्यु- भयत्राप्यमरः - अथवा घुसृणापरपर्यायकुङ्कुमकुसुमर्चञ्त्तचन्दनपङ्केन- नि. 'कुङ्कुमं घुसृणम्' इत्यभिधानरत्नमालायाम् - यद्वा कुङ्कुमेन