पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
स्त्रीप्रशंसा

 व्या... -अथालम्बनगुणं यौवनमाह - स्मितमिति..-स्मितं - मन्दहासः किंचिदीषन्मुग्धं सुन्दरं भवतीति यथायोगमध्याहार्यम् - नि. 'मुग्धः सन्दरमूढयोः' इत्यमरः। बाल्ययौवनमध्यस्थत्वेन तरूण्याः प्रागल्भ्याभावात् स्मितस्येषन्मुग्धत्वमुक्तमित्यवगन्तव्यम् । दृष्टि - विभवो विलोकनसंपत्तिः । सरलं अकुटिलं यथा तथा तरळश्वञ्चलो - भवति । वाचां परिस्पन्दो वाग्व्यापारोऽपि अभिनवा नूतना- विलासा यासां ता या - उक्तयो वचनानि - ताभिः सरसो - रसयुक्तः रुचिर इति यावत् । भवति । गतानां गतीनाम् ? कर्तरिक्तः । आरम्भ उपक्रमः । किसलयितः पल्लवितः * तारकादिवादितच - लीलापरिकरो विलाससमृद्धियस्य तथोक्तः - विलास - संबन्धवन्धुरो भवतीत्यर्थः । अतस्तारुण्यं यौवनं स्पृशन्त्या मृगदृश स्तरुण्याः सम्बन्धि । किमिव किं वा । रम्यं मनोहरं । नहिमवत्ति- सर्वमपि रम्यमेव भवतीत्यर्थः । इयं मुग्धा नायिका • 'उदयद्यौवना मुग्धा लज्जाविजितमन्मथा' इति लक्षणात् ।।

 अत्र श्लोकद्वयेऽपि श्लाध्यविशेषणयोगादुदात्तता नाम गुणः -
'श्लाघ्यैर्विशेणैर्योगो यस्याश्च स्यादुदात्तता' इति लक्षणात् ।।

 शिखरिणीवृत्तम्.

द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातव्येष्वपि किं तदास्यपवनः ? श्राव्येषु किं ? तद्वचः ।
किं स्वाद्येषु ? तदोष्ठपल्लवरसः स्पृश्येषु किं तद्वपुः र्ध्येयं किं?
नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः॥ ७ ॥