पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
स्त्रीप्रशंसा

प्रागेवोक्तम् ;तथा नयनवलनक्रियया विकीर्णत्वक्रियोत्प्रेक्षणात् ।
गुणक्रियानिमित्तक्रियास्वरूपोत्प्रेश्ना ॥

" यत्रान्यदपि संबन्धादन्यत्वेनोपकीर्तितम् ।
प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥"

इति लक्षणात्; तथा च नयनानां नीलोत्पलसाम्यं गम्यते. तेन
चोपमाव्यज्यत इत्यलंकारेणालंकारध्वनिः ।।

 शिखरिणीवृत्तम् ॥

वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने
वर्णः: स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः।
वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली
वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ ५ ॥

 व्या ---अथ यदुक्तमुद्दीपनविभावश्चतुर्विध इति । तत्र प्रथ- मोद्दिष्टालम्बनगुण कथनमुत्तरत्र करिष्यत इत्युपेक्ष्य 'स्मितेन' इत्यादिश्लोकत्रयेण काश्विच्छृङ्गारचेष्टाः केचिदनुभावाः संचारिणश्च वर्णिताः॥ इदानीं तु तदलंकरणं विवक्षुस्तस्य नैसर्गिकाहार्यभेदेन द्वैवि- ध्यादाहार्यकमनुपदमेव लक्ष्यत इति मनसि कृत्वा संप्रति नैसर्गिकं मण्डनमाह - वक्त्रमिति.-चन्द्रवद्विकसति ताच्छील्येनेति चन्द्र- विकासि सुन्दरमित्यर्थः ताच्छील्ये णिनिः। वक्त्रं वदनं च। पङ्क- जानां - पद्मानां - परिहासक्षमे अवहेलनसमर्थे। तत्सदृशी इति यावत्। लोचने । नयने। परिहासेत्यत्र * 'उपसर्गस्य धन्यमनुष्ये बहुलम्' इति दीर्घः। स्वर्गमपाकरिष्णुः। स्वर्णम् " पुष्पमूलेषु बहुलम्"