पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
शृङ्गारशतके

क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ।
कुमारीगाभेतैर्मदनसुभंगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः॥ ४ ॥

 व्या.--अथ शृङ्गारानुभावदृग्विलासान्सपरिकरं वर्ण- यति - क्वचिदिति ॥ क्वचित् कुत्रचित् । सभ्रूभङ्गैः भ्रुकुटिरे- चिताख्यभ्रूव्यापारसहितैः । क्वचिदपि च । लज्जया। परिगतैः प्रत्यावृत्तैश्च । स्वानुकूल्यप्रकाशकैरित्यर्थः। तदुक्तम् - 'सव्रीडा लोकनेनैव स्वानुकूल्यप्रकाशन'मिति। क्वचिद्भूरित्रस्तैः बहुळभय- सम्भ्रान्तैः। क्वचिदपि च । लीलाभिर्गतप्रत्यागतविलासविशेषैर्हेतुना - विलसितैः कमनीयः उज्वलैर्वा । तथा मदनेन - सुभगैर्मनोहरैः-विर- क्तस्यापि चित्तक्षोभकरैरित्यर्थः - 'यद्दर्शनाद्विरक्तोऽपि क्षुभ्यते तत्स- मन्मथ'मिति लक्षणात् । एतैरक्तप्रकारैः। कुमारीणां तरुणीनाम् । उत्पलाक्षणामिति भावः -बयसि प्रथमे इति ङीप्। नेत्रवलितै- र्नयनविलासैर्दिशः। स्फुरतां विकसितानां नीलाब्जानां। नीलोत्प- लानां - प्रकरैनिकुरुम्बैः। परिकीर्णा इव व्याक्षिप्ता इव। लक्ष्यन्त इति शेषः, प्रसिद्धक्रियाध्याहारो न दोष इत्याह वामनः - लिङ्गा- ध्याहारा वित्यत्र ॥

 अत्र नयनविलासानां प्रियजनादिरम्यवस्तुदर्शनचापलं विना आलम्बनात्कुतूहलं नाम शृङ्गारचेष्टितं सूच्यते - 'कुतूहलं रम्य- दृष्टौ चापलं परिकीर्तित'मिति लक्षणात् . भृकुट्यादीनां लक्षणं