पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
स्त्रीप्रशंसा

त्वानुभावकमन्त्संकोचनरूप व्रीडयाच - 'चेतस्संकोचनं व्रीडासङ्गराग स्तनादिभि'रिति लक्षणात्। भिया । आकस्मिकभयजनितत्रासेनेत्यर्थः- । तदुक्तम् - 'आकस्मिकभयाश्चित्तक्षोभस्त्रासः प्रकीर्तितः' इति - 'लजया गुणैरि'ति पाठे आसामेवालम्बनभूतानां रूपयौवनादिगुणैरि- त्यर्थः . ' आलम्बनगुणो रूपयौवनादिरुदाहृतः' इत्युक्तत्वात् । पराङ्- मुखैः ह्रियार्धास्फुटप्रसारिभिरित्यर्थः। अर्धकटाक्षवीक्षणैः असमग्रापाङ्- गावलाकनैश्च - कटाक्षलक्षणं तु - संगीतरत्नाकरे.

' यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम् ।
 तारकायाः कळाभिज्ञास्तत् कटाक्षं प्रचक्षते.' इति,

वचोभिश्शुककोकिल मधुरतरमृदुलाळापैश्च । ईष्यया परोत्कर्षासहन- रूपासूयया-य:कलहस्तेन च 'परोत्कर्षासहिष्णुत्वमीयां प्राहुर्मनीषिणः' इति लक्षणात्-यद्वा ईर्ष्य॑या कलहेन प्रणयकलहन चेति द्वन्द्वैकवद्भावः। 'सर्वोद्वन्द्वो विभाषैकवद्भवती'त्यनुशासनात्। लीलया वागादिभिः प्रियानुकरणरूपविलासविशेषेण च-'लीला प्रियानुकरणं वाग्भिर्गत्याs थचेष्ठये'ति लक्षणात्, किं बहुना समस्तभावैः स्तम्भरोमाञ्चस्वेदादिसा- विकभावः हर्षौत्सुक्यावहित्थादिसञ्चारिभावैश्वेत्यर्थः । स्त्रियः बन्धनं- खलु । पुंसां संसारबन्धहेतवः खल्वित्यर्थः । लिङ्गवचनव्यत्ययो नित्यनपुंसकत्वेन जात्यभिप्रायेण च - 'वेदाः प्रमाणम्' इति वद्द्र्ष्टव्य: ;-


 अत्र स्मितकटाक्षालापाः अनुभावाः - कार्यभूतोऽनुभावस्स्यात्क- टाक्षादिश्शरीरज' इत्युक्तत्वातू; लजाभयेर्ष्याः संचारिभावाः । भावलीले शृङ्गारचेष्टाविशेषा । इति द्रष्टव्यम् - तदुक्तम -