पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
कर्मपद्धतिः

वाञ्छितमभिलषितं । फलं भोक्तुमिच्छसि चेदिति शेषः । भगवती तां । सत्कियां सत्कर्माराधय - तस्याः अशेषफलदायकत्वादिति भावः। किं तु व्यसनैर्विपुलेष्वापद्भूयिष्ठेषु । गुणेषु। रजस्तमःप्रभू- तिषु वृथाव्यर्थमास्था मासक्ति। माक्रथा माविधेहि । तस्याः क्लेशैक- फलकत्वादिति भावः। करोतेर्जुछ न माङ्योग' इत्यः प्रतिषेधः ॥

अल खलादीनां साधुत्वादिकरणादशक्यवस्तुकरणरूपो विशे--घालंकारः ।।

शुभ्रं सम सविभ्रमा युवतयः श्वेतातपत्रोज्वला
लक्ष्मीरित्यनुभूयते चिरमनुस्यूते शुभे कर्मणि ।
विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटतन्तुकं
मुक्ताजालमिव प्रयाति झडिति भ्रश्यदिशोऽदृश्यताम् ॥ ९५ ॥

 व्या.-वृद्धिहान्योरप्येतन्मूलकत्वमेवेत्याह - शुभ्रमिति.---- चिरं चिरकालमारभ्यानुस्यूतेऽनुवर्तमानेऽपि * पिवु तन्तुसंताने' इति धातोः कतरि क्त: * च्छोश्शूडनुनासिके चेति अठि यणा- देशः। शुभे कर्मणि पुराकृतविशेष संभवति सतीत्यर्थः। शुभ्रं सम सौधादिकं। सविभ्रमास्सविलासाः। युवतयस्तरुण्यः। श्वेतात- पत्रणेकश्वेतच्छत्रेणोज्वला । लक्ष्मी राज्यश्रीरित्येतदखिलमित्यर्थः। अनुभूयतेऽनुमुज्यते। जन्मान्तरीयफलहेतुत्वात्तस्येति भावः। विच्छिन्ने शुभकर्मणि विनष्टे सति। नितरामतिशयेन। अनाकलहो रतिरण- रस एव क्रीडा केलिस्तया हेतुना त्रुटन भिदुरस्तन्तु येस्य तत्तथोक