पृष्ठम्:भरतकोशः-२.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयुज्यमानोऽभीष्टार्थः कारकादिसमन्वितः नीयते यत्प्रमोदाय तत्प्रयोजनमुच्यते । उपक्षेपेण कार्धस्य हेतुर्युक्तिसमाश्रया । द्वेनामन्त्रणा या तु विज्ञेया सा प्ररोचना । अक्मशसन्ध्यङ्गम् प्ररोचना चव विज्ञेया संहारार्थप्रदर्शिनी पूर्वरङ्गाङ्गम् प्ररोचना सा यत्रैव प्रत्याख्यातोक्तवस्तुनः । प्रशैसवा प्रेक्षकाणामुन्मुखीकरणं च यत् । शारदातनयः ... । संद्वियमाणस्य निर्वाह्यमाणस्यार्थस्य दर्शिका प्रकर्षेण रोचत इति प्ररोचना। यथा-कासौ ज्वलन्नित्यादिवाक्यम्। युक्तिरित्यन्ये इदमङ्गं व्याहरन्ति । अत्रोद्देशक्रमत्यागे यत्केषाञ्चिदङ्गानां लक्षणं तत्क्रमनियमसूचनार्थम् भरतः पूर्वरङ्गे गुणस्तुत्या सभ्यौन्मुख्यं प्ररोचना । पूर्व नाट्यात्प्रथमं गीतालवाद्यनृत्तानि नाट्यादिकं च पाठ्यं व्यस्तं समस्तं च प्रयुज्यते यत्र रङ्गे रञ्जनाहेतौ स पूर्वरङ्ग । अस्य पूर्वरङ्गस्य प्रत्याहारादीनि नवान्तर्यवनिकाङ्गानि ! गीतका दीनि दश वहियैवनिकाङ्गानि । प्ररोचना तु नाट्ये प्रवृत्तौ प्रधान मङ्गमिति लक्ष्यते । गुणस्तुत्या प्रस्तुतप्रबन्धार्थस्य प्रीत्यादिहेतुत्व प्रशैसनेन सामाजिकानां श्रवणावलोकनोत्साहोत्पादनं प्रकृतोऽर्थः प्रकर्षेण रोच्यते । उपादेयतया ध्रियतेऽनयेति प्ररोचना । रामचन्द्र जयाभ्युदयिनी चैव मङ्गल्या विजयावहा। सर्वपापप्रशभनी पूर्वर प्ररोचना भाविसिद्धिः प्ररोचना=भाविनोऽर्थस्य सि;ि ििद्धत्वेनोप क्रमणे प्रकर्षेण रोच्यते । अनया पिकार्थ इति प्ररोधूना । अन्ये तु सत्कारादेशनं प्ररोचनामाहुः । अन्ये तु अस्य स्थाने युक्ति पठन्ति । युक्तिश्च सविच्छेदोक्तिः । यथा-पुष्पभूषेितके 'भर्ता तवाह' मेित्यादिसमुद्रदत्तवचनम्। प्ररोचना च विज्ञेया सहतार्थप्रदर्शिनी । प्ररोचना स्यात्फणितिरभूतस्यापि भूतवत्। शिल्पकाङ्गम् गुणैरतिशयारोपः पदार्थस्य प्ररोचना । नेदै मुखं किमित्यादौ श्यते सा प्ररोचना । -भारतीीवृति जयन्युदयनी चैव मङ्गल्याविजयावहा सर्वपापप्रशभनी पूर्वरङ्गे प्ररोचना । प्रलयः-चित्राभिनय प्रलयस्सुखदुःखाडैः चेतसस्तु विसंज्ञिता। स्त्रीणां रत्यन्तसमये शुक्रचालनकालके तत्काले च मतिभ्रान्तिः स्त्रीजातीनामुदेष्यति आलोलिताख्यदृष्टिश्च धुतं नाम शिरस्तदा। हृदये मुकुलं बध्वा पुरोभागे तु कर्तरी। शरपञ्जरहस्तेन प्रलयस्य निरूपणम् सात्विकभाव श्रममूछामदनिद्रमिघातमोहादिभिःप्रलयः निश्रेष्ठो निष्प्रकम्पत्वाद्व्यक्तः श्वसितादपि । महीनिपातनाचापि प्रलयाभिनयी भवेत् । प्रलयो मदनिद्रारुकप्रहरैरुपजायते। स च दुखाभिषङ्गाभ्यां िनश्चेतनतयोच्यते। अभिषङ्गः सुखातिशायः । ... विनायकः माधवस्य परिच्छेदव्यक्तिर्न भवतीतिवत्। प्ररोचनायाः कोऽर्थः । प्रसिद्धार्थप्रदर्शिनी प्ररोचनाभिधीयते । ' प्रलोभनं गुणाख्यानपूर्वाभीष्टार्थलम्भनम् । यथा- अम्भोधिवारेितरणे इत्यादि । अन्ये तु प्रस्तुतस्यैव काव्यस्य यन्निध्पन्नेन वस्तुना । कथनं सा प्ररोचना । मुखादि - प्रयोजनार्थमर्थादिभिः प्रलोभनं प्रलोभः । यथा-मोटकाङ्के सन्धीनामवतारायादौ प्ररोचना कार्या ! शुवन्न आणे इत्यादि । मोटकाङ्कः-मृच्छकटिके अष्टमोङ्कः। शारदातनयः सागरः