पृष्ठम्:भरतकोशः-२.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धीरशान्तश्च सापायधर्मकामार्थतत्पर शेषं नाटकवत्सन्धिप्रवेशकरसादिकम् ।। नायेिका तु द्विधा नेतुः कुलस्त्री गणिका तथा। कुलजाभ्यन्तरा वेश्या बाह्या नातिक्रमोऽनयोः ।। आभिः प्रकरणं त्रेधा द्वाभ्यां सङ्कीर्णमुच्यते । सङ्कीर्णे तत्प्रकरणे यत्स्याद्वर्तसमाधुलम् । शिल्पादिव्यपदेशे भवेद्वेइयासमागमः । भाषेत प्राकृतं वेश्या संस्कृतं कुलनायिका ।। शकारः कुट्टनी चेटी धर्मशास्खवहिष्कृता विटचेटादयो बाह्या निलं प्रकरणे मता । अन्यूनाधिकपञ्चाङ्कत्वादिलक्षणसंयुतम् । ईद्वा रूपकं यत्तु तद्वै प्रकरणं भवेत् । पद्मावतीपरिणयो विप्रभ्य चरितं भवेत् । तथैव मृच्छकटिका वणिजश्चरितं भवेत्। कुलस्त्रीनाविकं ततु मालतीमाधवाभिधम् । यथा तरङ्गदत्ताख्यं गणिकानायिकाङ्कितम् । तथैव मृच्छकटिका विहेितोभयनायेिका ।। शारदातनय तन्न विप्रचरितं मृच्छकटिकायां। वणिग्वृत्तं पुष्पभूषिते । अमात्यचरितं तरङ्गदत्ते नवाई शारीपुत्रप्रकरणं अश्वघोषकृतम् सामानि गीतकानीति संप्रोक्तानि चतुर्दश । मन्द्रकाद्यत्तरान्तं च सप्तकै गीतकाभिधम् चतुर्दशपि चोक्तानि बुधैः प्रकरणाह्वयः । प्रस्तूयन्ते प्रकार्यन्ते मार्गतालैस्तु पञ्चभिः । अतः प्रकरणानीह प्रोकानि भरतादिभिः । बहुधा वस्तु तालाद्वैः प्रकर्षेण स्थितेर्यतः। कुलकच्छेद्यकपदप्रकरः क्रियते तत आहुः प्रकरणं नाम मन्द्रकादि पुरातनाः । प्रकरणिका-रूपकम् एवं प्रकरणी कार्था चतुरङ्क तु सा स्मृता एवं प्रकरणवन् । प्रकरणिकायाश्चत्वारोऽङ्काः ३८२ प्रकरणिकाया अपि उत्पाई वस्तु । यथा - नाटकस्य भेदो नादिका । एषा प्रकरणस्य भेद । अत्र केचित् - “एके भेदः प्रख्यातो नाटिकाख्यः । इतरत्वप्रख्यातः प्रकरणिकासंज्ञेो नाटी संज्ञया द्वे काव्ये आश्रिते इति "व्याचक्षणाः प्रकरणिकां प्रकरण चिशेषं मन्यन्ते । तदसत् । उद्देशलक्ष्णयोर्भरतेन अनभिधानात्। प्रकरी-सप्तगीतभेद अथ वस्तु प्रकृयः स्याच्चतुष्षण्मात्रशोभितम् शम्यान्तास्तत्र माताः स्युः द्वितीयान्त्यविवर्जिताः । द्वितीयायाश्चतुथ्याश्च पञ्चम्याश्च यथाक्रमम् । ताला गुरुभिराख्याताः षोडशद्वादशाष्टमाः। ततो द्वैकलभद्रक्य: कला अस्यास्तु षोडश । इति वस्तूनि चत्वारि त्रीणिसाधन्यथापि वा । त्रीणिचार्धानि वेदर्धमादौ दक्षिणमार्गके। यदा तदपि वृत्तौ स्यात्पूर्णमेव भवेत्तदा । उपोहनं च तलादं स्मृतं चार्थविवर्जितम् ।। उभयोः पक्षयोस्तत्र कर्तव्ये विवधैकके. वस्तुन्यन्त उपान्त्यापा मात्राया गमनान्तरम् । आसारितं कनीयः स्यादिति संक्षुरणं स्मृतम् ।। द्वैकलमद्रक्ष्ये इति । या: कला द्विकलभद्रके उक्तः ताः। उभयोः पक्ष्योरिति । पूर्वार्धपश्चिमाधैविपर्यासपक्षयोः। आसाः रितं कनीय इति । कनिष्ठासारितम् । शाने निरुक्तम् अर्थप्रकृति फलं प्रकल्पते.यस्याः पदार्थायैव केवलम् । अनुबन्धविहीनां तां प्रकरीति विनिर्दिशेत्। कथाशरीरव्यापिनि पुनस्सहायविशेष एवासाधकत्वात्करणा भासभूते वर्तमानारंभः प्रकरीत्युच्यते । पताकैव ह्यपलवत्यनु बन्धविहीना च प्रकरी । प्रकरी लघुभिः प्रकरः प्रकरीत्युच्यते स तु पुरुपादीनामेव स्यात्। यथा च पुष्पप्रकरः परार्थोपवरकादे शयनस्थानस्यान्यस्य वा शोभायै भवति । एवं महाप्रबन्धस्य श्रतुवर्णनादिभ्यो वा कोपि तद्विधेो व्यापारः सा प्रकरीति कथ्यते। यथा - मैनार्क किमयं रुणद्धि इत्याद्यदात्तराघवे । फलं प्रकल्प्यते यस्याः परार्थ केवलं बुधैः। अनुबन्धविहीनं स्यात्प्रकरीमिति िनर्दिशेत्।