पृष्ठम्:भरतकोशः-२.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वाकाय प्रदातव्यः साणायोध्र्वके बलिः। वैष्णवे मण्डले स्थाप्यः सर्ववीजहितोऽट्टिकः। श्वग्वस्रालेपनैः प्रीतैः चरुभिश्ध स्पायसैः ।। एतास्तु देवता िवप्राः पुष्करेषु प्रकीर्तिताः । सृष्टा मृदङ्गान्पणवं द्रं च महामुनिः। मेधैश्च स्वरसंयोगं मृदङ्गानामथासृजत् । विद्यजिह्वो भवेद्वामे मेधस्स तु महास्वनः । ऐरावतो महामेघः तथा चैत्रोध्र्वेके भवेत् । आलिङ्गथके तटिंदांश्च नाम्रा चैव बलाहकः। दक्षिणे पुष्कलो मेवः पुष्कलो वामयोजितः । भूदङ्गानां तु नामानि ऊध्र्धके नन्द्यथोच्यते। आङ्गिकस्सिद्धिरित्येवालिङ्गथकश्चैव पिङ्गलः । इति एवमुत्पाद्य विधिना वाद्यभाण्डानि शास्रवत्। चतुर्धा सन्निवेशेन स्थापयेद्वादनाविधै। ऊध्र्वे तिर्यगथाङ्गे च पार्थे च विनिवेशनम् । पञ्चानां वाद्यभाण्डानां नान्यदेवोऽनुमन्यते । अवनद्धगतस्यापि तस्य वक्ष्यामि लक्षणम् । यथेोतं मुनिभिः पूर्वं स्वातिनारदपुष्करै सर्वलक्षणसंयुतं सर्वातोद्यविभूषितम् मृदङ्गानां समासेन लक्षणं पणवस्य च । दुर्दरस्य च सङ्केषाद्विधानं वाद्यमेव च। अनध्याये कदावितु खातिर्मइति दुर्दिने । जलाशायं जगामाथ सलेिलानयनं प्रतेि । तस्मिञ्जलाशये यावत्प्रतिष्ठः पाकशासनः ।। धाराभिर्महतीभिस्तु पूरयन्निव मेदिनीम्। पतन्तीभिश्च धाराभिः वायुवेगाजलाशये ॥ पुष्करेिण्यां पटुइशब्दः पत्राणामभवत्तदा तेषां धारोद्भवं नादं निशाम्य स महामुनिः। आश्चर्यमिति मन्वांनश्धावधारितवान्खनम् । ज्येष्ठमध्यकनिष्ठानां पत्राणामवधायै च । गम्भीरमधुरं हृद्यमाजगामाश्रमं ततः। ध्यात्वा सूटिं मृदङ्गानां पुष्करानसूजत्ततः। देवानां दुन्दुभिं दृष्टा चकार मुरांस्ततः ।। आलिङ्गद्यमूर्वकं चैव तथैवाङ्किकमेव च । चर्मणा चावनद्वांस्तु मृदङ्गन्दरं तथा तन्त्रीभिः पणवै चैत्रमृहापोहविशारदः। त्रयं चान्यानपि तथा काष्टायसकृतान्यथ । झलरीपटहार्दीनि चर्मनद्धानि तानि च । आतोद्यसमवाये तु यनि योज्यानि वादकैः। अधुनाऽऽकृतिरेतेषां यथा मुनिभिरीरिता। हरीतकीयत्वग्गर्भा गोपुच्छा च तथापरा समा पिपीलिका कुम्भा हरीतक्यर्धसंज्ञिता सौवाऽऽकृतयस्त्वेताः विज्ञेया वाद्यवेदिभिः। सर्वेषां वाद्यभाण्डानां मार्गाणां भार्गदेशिना ।। हरीतक्याकृतिं विद्याद्वाद्यमाङ्किकपुष्करम्। सार्धत्रितालमान तन्मुखं चतुर्देशाङ्गुलम् । जपाकृतिं विजानीयादूर्वकं मध्यपुष्करम् चतुस्तालेोत्थितं वक्ते द्वादशाङ्गलसमितम् ॥ गोपुच्छाकृतेिरेवं स्यादालिङ्कथश्चापि पुष्करः। तालत्रितयमानश्च मुखेऽष्टाङ्गलमानवान् । एवमाकृतिमानाभ्यां जानीयात्पुष्करत्रयम् पिपीलिकाकृतिं चापि प्रमाणं मध्यभागतः । ोङाङ्गलदीर्घ च पणवे मुनयो विदुः। हीनमध्येऽङ्गलान्यष्टौ पञ्चाङ्गलमुखस्त तस्य छिद्रं तु मध्ये स्यातुरङ्कलसम्मितम् सार्धाडुलाटं च तथा मण्डलेन चतुर्दश । विज्ञेयान्यङ्गलान्येवं विधिः स्यात्पणवाश्रयः। विद्यते च घटाकारं वाद्यभाण्डं च दर्दरम् नवाझुख्मुखं चापि विस्तारे द्वादशाङ्गलम् द्विमुखं पीवरोधे च वर्तुलं विपुलध्वनि । पञ्चवातोद्यानि चैतानि भरतोप्याह पुष्कला-श्रुति मन्द्रगान्धारप्रथमा श्रतेिः