पृष्ठम्:भरतकोशः-२.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पताकास्थानकम् ३५१ यथा-जीमूतवाहनस्य परार्थ आत्मानं ददतः शङ्खचूडेन न मपास्य मनं भवेन् श्लिष्टप्रत्युत्तरं यथोदभासम् । खण्डित दत्तं वध्यचिहूं। तद्वयाकुलस्य कञ्चुकिनानीय मित्रावसुजनन्या नायकयोः उत्तरोत्तरमस्मिन्नुदाहरणमुपन्यस्यते। कान् नाथेत्यादिः प्रहितं रक्तवासोयुगं दत्तम्। –(चतुर्थे) पतकास्थानकम्-(द्वितीयम्) द्वययों वचनविन्यासः सुशिष्टः कान्ययोजिनः वचस्सातिशयं श्लिष्टं काव्यबन्धसमाश्रयम् पताकास्थानकमिदं द्वितीयं परिकीर्तितम् ।। भरतः येो वचनविन्यासः कथाल्पं वा सालङ्कारत्वसंपत्याशयेन काव्यस्य प्रकृतम्य वर्णनीयस्य यो बन्धः अतिाओोक्त्यादिना शोभनः प्रसादयुक्तः श्रेषवशाट्यथै इन अनेकार्थसंग्रयुक्तः योजनं तन्निमित्तवाद्यद्वचनं सातिशयश्लिष्टमप्रकृतं प्रत्युचितं तादृशस्सन्नुपन्यासे वस्त्वन्तरोपक्षेपे सुष्ट नंपद्यते । तचतुर्थम् यथा---रत्रावल्याम् प्रीत्युत्कर्ष इत्यादौ (१-२३) काव्यरूपता तद्वचनं तदर्थो वा तदुचारयिता वा यादृच्छिकं वा प्रकृतोपयो गित्वेन सहकारित्वेन गच्छत् द्वितीयं पताकास्थानमभिसन्धाना - शयेभ श्रेष: प्रयुक्तः प्रधानवत्वन्तरं सागरिकागतमुक्षिपति । अयं स राजा उद्ग्रनो यस्याई नातन दांत सागरिंका पेक्षया। यथा-रामाभ्युदये तृतीयेऽङ्के सीतां प्रति सुग्रीवस्य बहुनाव क्रिमुक्तन पारेऽपि जलधेः स्थिताम् । अचिरादेव देवि त्वां अहरिष्यति राघवः । अत्रान्यप्रयोजनेन अतिशयोक्त्याशयेन प्रयुक्तेऽपि वचसि पारेऽपीत्यादि प्रकृतोपयोगातिायात् पताकास्थानकम् । अभिनव वचस्सातिशयमित्यादि । वचो वचनं सातिशयं बह्वर्थसमा धानम्। श्लिष्ट द्वयर्थवाचकं काव्यबन्धसमाश्रयम्। प्रस्तुतस्य काव्यस्याश्रयम् । यथा -वेण्यां सूत्रधारः निर्वाणवैरेत्यादि । गरः अर्थोपक्षेपणे यत्र लीनं सविनयंभवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदभिष्यते।। लीनमस्फुटरूपं उत्क्षिप्यमाणमर्थजातं श्छेिन संबन्धयोग्ये नाभिप्रायान्तरप्रयुतेनापि प्रत्युतरोपेतं सत् यत्र सविनयं विशेः षेण नयनेन विशेषनिश्चयप्राप्तवा सहितं संपद्यते नन् तृतीयं पताकास्थानकम् । यथा-मुद्राराक्षसे चाणक्यः अपि नाम राक्षसो गृहोतइत्यस्फुटेऽर्थे उपक्षेित्रे सिद्धार्थकः आयै गृहीत इये तत्प्रत्युत्तरं सन्देशाशयेन प्रयुक्त औचित्याद्विशेषनिश्चयं करोति । पुनश्चाणक्यः आत्मगतं गृहीतौ राक्षस इति मन्यते । इदं च प्रकृतसाख्योपयोगाङ्गित्वान पताकास्थानीयमिति घीयङ्गाद्भण्डा- अभिनः अर्थोपक्षेपणमिति । यस्मिन्नर्थप्रकाशं लीनं. सविनयं औद्धत्य आगभदाबिमशद्वा पताका विनिवर्तते स यत्रार्थे चिन्तितऽन्थमित्तलिोऽन्यः प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत्। भरतः उपपत्या संग्रयुक्तः, अर्थद्वयवाची काव्ययोजनाक्ष्म: उपपत्ति भान् । अस्य प्रयोगो मुखादिसन्धिचतुष्टये कापि विधातव्यः । 3ान् सागरः स्वफलसिद्धये यत गाणनस्य तत्र तत्रावव्यं पृथग्गणनाशङ्काम् । अस्मत्पक्षे कमिस्तर्हि प्रधानसन्धौ तस्यानुयायित्वमिति दर्शयितु माह आगभर्भादिति। यमथे व्याप्य निवर्तत पताकतिवृत्तं तावत्येव य स्वफलसिद्विरुपनिबन्धनीया । सिद्धफलस्त्व प्रधानफल एव व्याप्रियमाण: भूतपूर्वगत्या पताकाशब्दवाच्य प्रधानवञ्च कल्पयेते त्युक्तत्वान्निर्वहणपर्यन्ते पताकास्थानफले क्रियमाणे तुल्यकालयोरुपक्रायपकारकत्वाभावात, तन प्रधानोप कारो न भवेत्। प्रधानवच कल्प्येतेति पताकालक्षणे अभिधा नाद्वहुतरेतिवृत्ते व्यापकता नायकस्य पताकानायकस्य तु परि मितेति वृत्तव्यापकत्वं । यसाथै इत्यादि-अर्थः प्रयोजनमुपा यश्च । कर्मकरणव्युत्पत्या अन्यस्मिन्नुपाये प्रयोजने वा चिन्तिते अन्यः उपायान्तरप्रयोजनान्तरलक्षणः प्रकर्षेण युज्यते सम्वध्यते यखेति तत्पताकास्थानकम् । पताकाधारत्वादुपचारादितिवृत्तमपि पताकास्थानकम् । उपाध्यायास्याहुः पताकायाः स्थानमिति वृता । तत्र चाथैः क्रियमाणोऽपि पूर्वपदार्थमुपसंक्रामति पताकास्थानकमिति वृत्तमेवोच्यते । तत्र वर्तमानं तु जडाजद्ध रूपं पताकासदृशमित्यर्थादुक्तं भवति । स चान्योऽर्थः तलिङ्गः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-२.pdf/३३&oldid=99313" इत्यस्माद् प्रतिप्राप्तम्