पृष्ठम्:भरतकोशः-२.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यममन्द्रा तारागान्धारा शिकग्रहन्यांसा ! संपूर्णा समशेषा मधुररवा मधुकरी प्रोक्ता ॥ समस्क्रा च पूर्णा च भता मधुकरीति सा । ततः ककुभसंभूता ख्याता मधुकरीति च धैवतांशअहन्यासा गान्धारेण विवर्जिता । समस्वरा मन्द्रमध्या विभाषा पूर्णतां गता ॥ निषादश्य द्वितीया श्रुतिः । सद्वरीति नामान्तरमादर्शषु दृश्यते अथ वायै प्रवक्ष्यामि मतङ्गमुनिसम्मतम् । तद्वाद्यलक्षणं वक्ष्ये पूर्वोक्तविधिना मतम् ॥ निर्दोषबीजकाटेन मधुरीति च सा भृता। एकविंशत्यङ्गुलीभिः मिता तत्र पृथक् पृथक् । मधुरी मूलमङ्गल्या थङ्गलमध्यमम् भवत्यमै द्वयङ्गलेन सर्वाङ्गं चैकविंशतिः नान्ः । --सुषिरवाद्यम् स्वेच्छया तदभिश्च निमिता वैणवोऽपेि ये। ते ते विभावनीयास्तु सुषिरातोद्यलक्षणे। यथा मधुकरी वेणुः िछौसप्तभिरङ्कितः खलु वेणुस्तदा ज्ञेयो विद्वद्भिर्वेणुलक्षणम् ॥ शङ्खश्च काहला चैव श्रृङ्गं ग्रहणमेव च । विलोला तुरतुरिका विोगा चैवमादयः । वाद्यभेदेषु विज्ञेयाः सुषिरातोद्यलक्षणै चतुर्भिरक्षरैर्युतैः स्वरैरोहयनेकशः (एते श्लोका अतीवलेखकदोषदुष्टा मन्तव्याः) धनै, पटौ इति शङ्केहकारश्च टकारश्च कारश्च काह - लायां तलशरहकाराः शृङ्गे धतुरतुरिकायां नकारो विलोलयोगयोः हः जन्म मूलराद्धे स्थितो ब्रह्मा चान्ने पशुपतिस्तथा। मध्ये जनार्दनः पाशे साक्षान्नाम महेश्वर अद्यन्तयोर्वसुः पत्रं ब्रह्मा नाभिस्सएम्ती। कमला पत्रिकाकुम्भे जवालस्तु सुधाकरः। सप्तरन्धैश्च सम्मिश्रे सप्तस्वरसमन्वितम् । तेऽमिश्राण्येकरन्श्रेण रन्ध्ररण्यप्येकविंशतिः । मधुर्या मूलकं बद्धं दक्षिणाख्येतरेण च । सर्पशीर्षकरेणैव मतङ्गमुनिना मतम् । अग्रं चतुरहतेन मृगशीर्षकरेण च । करद्वयेन सम्पीड्य भधुर्या लक्ष्म चोदिता । पीडिता दक्षहस्तेन ब्रह्महत्यादिपातकम् । पीडिता वामहस्तेन भ्रणहत्यां लभेत्सदा। पीडिता चेत्कराभ्यां च भवेत्प्रीतस्सदाशिवः। षड्जमध्यमगान्धाराः स्थायिसञ्चारिणो मताः ।। धांशं मधुकरी प्रोक्ता भन्द्रधैवतभूषिता सरिभ्यां निधपैर्भूरि संभवः ककुभान्मतः । विभाषा स्यान्मधुकरी निर्गता ककुभाच्छुभा। शीघ्रा निषादम्ऋषभैः ग्रहांशान्यासवैवता । गहीना मन्द्रमध्याभाकू गातव्या करुणे रसे । ककुभोत्था विभाषेयं निर्दिष्टा याष्टिकेन तु । धेवतांशग्रहन्यासा गर्हीना मन्द्रमध्यभाक् । समस्वरा च संपूर्णा करुणे मधुकर्यसै । इयमशोकेन मुडुपचारीति कथ्यते। अङ्गुलीपृष्ठभागं हि मृत्तज्ञा मुडुपं जगुः। चाथैते तेन मुडुपचारीत्यन्वर्थसज्ञिका। निरुक्तिमेवं केऽप्याहुरन्ये संज्ञां डिपित्थवन्। मुडुपोपपदाश्धायैस्सन्ति यद्यप्यनेक: । तथाप्यमूर्मया काश्चित् लिख्यन्ते केहलोदिताः।। मधुमती-श्रुति निषादस्य द्वितीया श्रुतिः । अशोक