पृष्ठम्:भरतकोशः-२.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म-स्वरः उपर्युपरि विन्यस्तौ यत्रान्योन्यमधोमुखौ। ऊध्र्वाङ्गष्ठ पताकाख्यौ करौ स मकरः करः । स नक्रमकरादीनां क्रव्यादद्वीपिनामपि । सिंहादीनाममिनये नदीपूरस्य चेष्यते। पताकौ यत्र स करो मकरः परिकीर्तितः। क्रमात्पार्श्वद्वये तिर्यक् स्फालं स्फालं प्रसारितः । स करो मत्स्यगमनमिनये विनियुज्यते । मृगेन्द्रव्याघ्रमकरनक्रादीनां निरूपणे । तत्तन्मृतानुसारेण विवृताग्रः प्रयुज्यते । वक्षोदेशात्पुरो गच्छन् विप्रकीर्णचलाङ्गुलिः। सरित्प्रवाहाभिनये स करो विनियुज्यते । मन्नरकशीर्षा-ध्रुवावृत्तम् गुरुयुगभन्ते यदिपरमस्याः इह कथिता सा मकरकशीर्षा । (उद्) इह सिसिरग्मि (छाया) इह शिशिरे। मकरन्दः-गीतालङ्करः (अठालभेदः) राजतालाभिधाने तु लधुर्दूतै लधुस्ततः । अनेन तु समायुक्तो मकरन्दोऽट्टतालक ॥ देशीताल मकरन्दाह्वये ताले द्रतौ द्वौ लखयं गुरुः । मकरन्दे इतद्वन्द्वे लत्रयं च गुरुस्ततः । मकरन्दोडुपम्-देशीनृतम् दो लैलो मकरन्दकः। तालेनानेन विहितं मकरन्दोडुपं बुधैः ।। शः ४५७ करो मकरनामा चेत्पुरत: पार्श्वयोस्तथा । व्यावर्तितो बहिश्धान्तस्तदा मकरवर्तना ।। मकरशीला-स्त्री स्थूलशीर्षाञ्चितग्रीवा दारितास्या महास्वना । ज्ञेया मकरसत्त्वा तु कूरा मत्स्यगुणैर्युता । पूर्वोक्ताञ्जलिहस्ते तु तत्राङ्गुष्ठ कनिष्ठिके श्लिष्ट प्रसारिते चापि क्रमाद्झषकरो भवेत् । कोहलस्य मते प्रोक्तो भकारार्थे नियुज्यते । मकरिका-शिरोभूषणम् नतलाङ्कलहस्तेन कर्तव्यः मखाहतः-(शारावाकृतिर्मस्ख) मखाथै भार्गवेणासौ कल्पितो बहुधीमता ॥ शुभवाचैर्युतं गीतं शुद्धपञ्चमनिर्मितम् । विवाहाद्युत्सवे गेयं मङ्गलं महिलाप्रियम्। शुद्धपञ्चममिति प्रामरागभेद उच्यते। मङ्गल-प्रबन्ध लक्ष्यते मङ्गलश्चाथ मङ्गलच्छन्दसा युतः । विलम्बितलयैराढथमुत्सवेषु च गीयते । मङ्गलं घोटरागे वा कैशिक्यां मङ्गलैः पदैः । विलम्बितलये गेयं मङ्गलच्छन्दसाऽथवा । भगणाः पञ्च विज्ञेथा मङ्गलाख्ये पदं प्रति । मङ्गली भेन ।