पृष्ठम्:भरतकोशः-२.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पार्श्वभागे तु भेरुण्डपक्षिणां च निरूपणे । मला । (अ) स रेि ० ० ग म ० ० ० ध ० नि स (अव) स नि ०ध ० प ० म ग ० ० रेि स मेसलक्षणे भैरवः-शाङ्गरागः (ीणयां वादग्क्रमः) स्थायिनो धैवतादृत्वा त्रिपञ्चचतुरः स्वरान् । अवरोहात्पुनः स्थास्क्रिपर्यन्तमेत्य ततृतीयं ततोऽधस्थं कृत्वा स्थायी यदोच्यते । तदा स्याद्वैरवस्थायी विरम्योद्वीक्ष्यते जनैः । --रागः (वंशे वादनक्रमः) धैवतं प्रह्मास्थाय सत्पूर्व स्थायिनं तत । तृतीयं च स्वरं कृत्वा पुन: मात्रं स्वरं व्रजेत् । तृतीयं कम्पयित्वा च विलम्याथ द्वितीयकम् । आहत्य च द्वित्रिवारं ग्रहो न्यासो यदा भवेत् । स्थानं प्रथमे प्रेतं भैरवस्य तदा बुधैः। भवेद्भद्वितीये स्थाने स्वारोहः पञ्चमावधि । षष्ठान्तः सप्तमान्तो वा स्यादारोहस्तृतीयके अष्टमवरपर्यन्तमारोहः स्याश्चतुर्थके अवरोहः स्वराणां तु पूर्वपूर्ववदिष्यते वंशेष्वस्य द्वितीयस्तु स्वरः स्थायी निरूपितः अथ स्याद्वैरवो रागः षड्जांशन्यासमध्यम समस्वरो धैवतांशः पञ्चमर्पभवर्जितः । (मालवौलमेलजः) यदीयांशाग्रहन्यासाध्षड्ज एवं निगद्यते । रिपास्तो भैरवो रागः प्रभाते स प्रगीयते। धैवतांशग्रहन्यासा संपूर्णोऽथ समस्वराः। आन्दोलितस्तु खस्थाने स्वाश्रितः पञ्चमेन तु। गान्धारः कम्पितो मन्द्रे रिषभे चापि कम्पितः । निषादृषड्जबहुलो भैरवः परिकीर्तितः ॥ : सोमेश्वर ४४ व्यासप्रहायास्थतधलताख्यो गान्धारषड्जावतिारयुक्तः अन्द्रश्च पूर्णध्वनिधैवतीयः शेषास्समा भैरव एष उक्तः ॥ धैवतांशाग्रहन्यासस्संपूर्णोऽथ सप्त वरः । आगान्धारमथेो षड्जं तारो मन्द्रश्च धवत धैवतांशाग्रहन्यासयुक्तः स्याच्छुद्धभैरवः । सकल्पमन्द्रगान्धारो गेयो मध्याह्नतः परम् ।। अयौडुव इत्यपि गण्यते। नारायचा रागः (ओौडुवः) भिन्नषड्जसमुत्पन्नो भैरवोऽपि रिपोज्झितः । धग्रहांशो मध्यमान्तो गेयो मङ्गलकर्मणि ।। इयमेव भरवी । भैरवी कैशिकी चैव भैरवस्यैव जलभा । भैरवे तु रिपौ न स्तो धादिमे न्यासमध्यमे । तत्रोक्तौ तु गनी तीव्रौ कोमो धैवतः स्मृतः । अयं मेलाधिकारी । प्रातर्गेय धैवतांशो भध्यभान्तो विमुक्तर्षभपञ्चमः । शीते च भैरवो मिन्नषड्जातः समस्वरः हेमन्तप्रथमे यामे करुणे विप्रलंभजे ॥ एकास्याष्ट भुजः वेतवर्णो वृषभवाहनः । कृत्तिवासाः सर्पशूलः रूट्राङ्गजपमालिका वीणापाशाफलाब्जानि बिभ्राणेो भैरवप्रभः। कैश्चिद्रागविदां वयैः स्मथैते शूलरूपभृत्। मिन्नषड्जसमुदूतो मन्यासो धांशभूषितः स्वरास्समपरित्यक्तः प्रार्थने भैरवस्मृतः । --मेलरागः (सूर्यकन्तमेलजन्यः) ( आ ) स रेि ग म प ध नि स (अव) स ध प म ग रेि ग स धैवतांशग्रहन्यासो रिपहीनो धसान्तकः। भैरवस्स तु विज्ञेयो धैवतादिकमूछन: ।