पृष्ठम्:भट्टिकाव्यम्.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
236
[ BHATTIKAVYA
 

निलिल्ये मूध्नि गृध्रोऽस्य क्रूरा ध्वाङ्क्षा ववाशिरे ।
शिशीके शोणितं व्योम चचाल क्ष्मातलं तथा ॥ ७६ ॥

ततः प्रजघटे युद्धे शस्त्राण्यासुः परस्परम् ।
वस्रश्चुर् अजुघूर्णश्च स्येमुश् चुकूदरे तथा ॥ ७७ ॥

रुरुजुर भेजिरे फेणुर्बहुधा हरिराक्षसाः ।
वीरा न बिभयाञ्चतुर्भाषयाञ्चक्रिरे परान् ॥ ७८ ।।

रक्तं प्रचुश्चुतुः क्षुण्णः शिश्रियुङ्गणविक्षताः ।
अस्यतां शुशुचुर्वाणान् भुजाः साङ्गुष्ठमुष्टयः ॥ ७९ ॥

रणे चिक्रीड धूम्राक्षस्तं ततर्जाऽनिलात्मजः ।
प्रवदे च शिला सोऽश्वं पिपेषाऽस्य रथं तया ॥ ८० ॥

पपात राक्षसो भूमौ रराट च भयंकरम् ।
तुतोव गवया चाऽfर तं दुश्रावाद्रिणा कपिः ॥ ८१ ॥


 76. A Vulture settled down on his head; evil crows crowed; the sky sprinkled blood; also the surface of the earth quaked.

 77. Then the battle started; (they) hurled missiles mutually; they pierced, revolved, shouted and sported.

 78. The monkeys and the demons smashed, shone and moved variously; the warriors did not fear ; (they) frightened the enemies.

 79. Injured, they oozed out blood (and) got swollen ; the arms of those who hurled arrows disappeared along with the fingers and fists.

 80. Dhumraksa sported in the battle; the son of the Wind (Hanuman) condemned him ; and he picked up a rock and with it smashed his chariot, along with the horses.

 81 . The demon fell on the ground and yelled horridly ; and (he) smote the enemy with a mace; the monkey rendered him motionless with a boulder,