पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ xxvii ]

अथ गीताकरादिन्यासः ।

 ॐ अस्य श्रीभगवद्गीतामालामंत्रस्य भगवान्वेदव्यासऋषिः । अनुष्टपू छंदः ॥ श्रीकृष्णः परमात्मा देवता ॥ अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषस इति बीजम् । सर्वधjdमान्परित्यज्य मामेकं शरणं व्रजेति शक्तिः । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकम् ॥ नैनं छिंदंति शस्त्राणि नैनं दहति पावक इत्यंगुष्ठाभ्यां नमः । न चैनं क्लेदयंत्यापो न शोषयति मारुत इति तर्जनीभ्यां नमः ॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव चेति मध्यमाभ्यां नमः । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इत्यनामिकाभ्यां नमः । पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश इति कनिष्ठिकाभ्यां नमः ॥ नानाविधानि दिव्यानि नानावर्णाकृ तीनि चेते करतलकरपृष्ठाभ्यां नमः ॥ इति करन्यासः ॥ अथ हृदयादिन्यासः ॥ नैनं छिंदंति शस्त्राणि नैनं दहति पावक इति हृदयाय नमः । न चैनं क्लेदयंत्यापो न शोष यति मारुत इति शिरसे स्वाहा ॥ अच्छेद्योऽयमदाह्योऽयमक्ले द्योऽशोष्य एव चेति शिखायै वषट् ॥ नित्यः सर्वगतः स्थाणुरच कोऽयं सनातन इति कवचाय हुम् । पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश इत नेत्रत्रयाय वौषट् ॥ नानाविधानि