पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३४

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
( १५ )
इन्दूच्चोनार्ककोटिघ्ना गत्यंशा विभवा विधोः ।
गुणो व्यर्केन्दुदोः कोटयोरूपपञ्चाप्तयोः क्रमात् ॥
फले शशाङ्कतद्गत्योलिप्ताद्ये स्वर्णयोर्वधे ।
ऋणं चन्द्र भुक्तौ स्वर्णसाम्यवधेऽन्यथा ॥

इत्यनेनैतादृश एव चन्द्रसंस्कारो मुञ्जालाचार्येण 'लघुमानस' नामके करणग्रन्थे कथितः । परमेतयोः सदृशत्वाभावात् श्रीपतिना वेंधेन दृष्ट्वा ततो भिन्नोऽयं कथित इति प्रतिभाति । श्रीपयुक्तोऽयं संस्कारो भास्कराचार्यरेणासकृद्- दृष्ट्वा विवेचितस्तत्र स्वोपलब्धेविस्तारपूर्वकं प्रतिपादनार्थमेको 'बीजोपनय नामको ग्रन्थः ५९ श्लोकात्मकः सिद्धान्तशिरोमणि रचनैकवर्षानन्तरं -

मयाय बीजोपनये यदन्ते सूर्योक्तमाद्यं परमं रहस्यम् ।
प्रकाशये गोप्यमपीह देवं प्रणम्य बीजं जगतां हितार्थम् ॥ १॥
यद्यपि पूर्वमपीदं संक्षेपादुक्तमागमोक्तदिशा ।
मैतावतैव कश्चित् दृक्करौक्याय कल्पते गएकः ॥२॥
दृक्करणक्यविहीना: खेटा: स्थूला न कर्मणामः ।
प्रत इह तदर्हतायै तात्कालिकवीजविस्तरं वक्ष्ये ॥ ३॥
पाता रवेस्तामसकीलकाख्यास्तेषां समाकर्षणतः शशाङ्कः ।
तत्तुङ्गशक्तिश्च निजस्वभावं विहाय नित्यं विषमत्वमेति ॥४॥
चन्द्राच्च तद्योगवियोगतश्च साध्यं हि भाद्यं विषमं यतः स्यात् ।
तस्माद्विधोरत्र विशुद्धिशुद्ध विस्तार्यते बीजफल क्रियेयम् ॥५॥
एकेन पुसा निखिलग्रहाणामन्तं प्रबोधो नहि शक्यतेऽतः ।
व्यासात्समासाच्च यथोपलब्धं प्रोक्तं मयेत्यादरणीयमेतत् ॥६॥

इत्यादिना सिद्धान्तशिरोमरिणवद्वासनाभाष्यसहितो विरचित इति । भग्रहयोगाध्याये -

कृत्यापि दृष्टिकर्म श्रीषेणार्यभटविष्णुचन्द्रोक्तम् ।
प्रतिदिनमुदयेऽस्ते वा न भवति हरिणतयोरैक्यम् ॥ १॥
भमुनिमृगव्याधानां यतस्ततो दृष्टिकर्म वक्ष्यामि ।
हरिणतसमं देयं शिष्याय त्रिरोषितादेयम् ॥२॥

इति ब्रह्मगुप्तेन पाण्डित्वपूर्णमुक्तम् । एतदेव यथार्थ बुध्वा तदुक्तो (ब्रह्म- गुप्तोक्तः) भग्रहयुत्यध्यायः सम्पूर्णोपि स्फुटोक्त्याऽनूदितः श्रीपतिनेति ।